उन्मादः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उन्मादः, पुं, (उत् + मद् + घञ् । (महादेवः । यथा महाभारते । महादेवसहस्रनामकथने १३ १७ । ६९ ॥ “उन्मादो मदनः कामो ह्यश्वत्थोऽर्थ- करी यशः” ।) वातिकरोगविशेषः । तत्पर्य्यायः । चित्तविभ्रमः २ । इत्यमरः ॥ मतिभ्रंशः ३ उन्मनाः ४ । इति राजनिर्घण्टः ॥ (चित्तविप्लवः ५२ । २३४ । इति हेमचन्द्रः ॥) मानसरोगविशेषः । तस्यौषधं यथा, -- “वचा त्रिकटुकञ्चैव करञ्जं देवदारु च । मञ्चिष्ठा त्रिफला श्वेता शिरीषो रजनीद्वयम् ॥ प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् । नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनम् तथा ॥ अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्च भयं हन्ति राजद्वारे च शासनम्” ॥ इति गारुडे १९९ अध्यायः ॥ * ॥ अथ उन्मादा- धिकारः ॥ तत्र उन्मादस्य निरुक्तिमाह । “मदयन्त्युद्धता दोषा यस्मादुन्मार्गमास्थिताः । मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः” ॥ अयमर्यः । यस्माद्धेतोरुद्धताः प्रवृद्धा दोषाः उन्मार्गमास्थिताः मदयन्ति चित्तं विक्षिपन्त्य- स्मिन् । अतोऽयमुन्माद इति कीर्त्तितः । सः उन्मादः मानसो व्याधिः मनोवैकृत्यकरणात् ॥ * ॥ तस्यैवावस्थाभेदेन नामान्तरमाह । स चाप्रवृद्ध- स्तरुणो मदसंज्ञां बिभर्त्ति च । स उन्मादस्तरुणो नवीनः ॥ * ॥ उन्मादस्य विप्रकृष्टनिदानमाह । “विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम् । उन्मादहेतुर्भयहर्षपूर्ब्बो मनोऽभिघातो विषमाश्च चेष्टाः ॥” दुष्टं धत्तरवीजादिसहितम् । अशुचि रजस्वलादि- मुन्मत्तचित्तत्वमुदर्द्दितत्वमर्द्दिताकृतिकरणञ्चव्याधेः स्वप्ने च दर्शनमभीक्ष्णं भ्रान्तचलितानवस्थिता- नवस्थितानाञ्च रूपाणामप्रशस्तानाञ्च तिलपी- डकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्मथनं निमज्जनं कलुषाणामम्भसामावर्त्तेषु चक्षुषोश्चा- पसर्पणमिति दोषनिमित्तानामुन्मादानां पूर्ब्ब- रूपाणि” ॥
उन्मादः, त्रि, (उत् + मद् + घञ् ।) उन्मादरोग- युक्तः । क्षिप्तः । उन्मत्तः । इत्यमरटीकायां नील- कण्ठः ॥ पागल इति भाषा ॥
