सामग्री पर जाएँ

उन्मुखः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उन्मुखः, त्रि, (उदूर्द्ध्वं मुखं यस्य ।) ऊर्द्ध्वमुखः । तत्- पर्य्यायः । उत्पश्यः २ । इति हेमचन्द्रः ॥ (“मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः” । इति रघुः । १ । ३९ ।) उत्सुकः । यथा कुभारे । ६ । ३४ ॥ “तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे” । “पतिः प्रतीतः प्रसवोन्मुखीं प्रियाम्” । इति रघुः । ३ । १२ ॥ “अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः” । इति मेघदूते । पूर्ब्बमेघे १४ । “इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा” । इति च मेघदूते उत्तरमेघे ३९ श्लोकः ॥)

"https://sa.wiktionary.org/w/index.php?title=उन्मुखः&oldid=118874" इत्यस्माद् प्रतिप्राप्तम्