सामग्री पर जाएँ

उपकुर्व्वाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपकुर्व्वाणः, पुं, (उप + कृ + शानच् ।) ब्रह्मचर्य्या- नन्तरं यो ग्टहस्थो भवति सः । इति पुराणम् ॥ (कृतोपकारः । यथा हितोपदेशे सुहृद्भेदे, -- “यतोऽनुपकुर्व्वाणो न कस्यापि उपायनं गृह्णीयात्” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपकुर्व्वाण¦ पु॰ उपकुरुते गुरोर्दक्षिणादानादिना उप + कृ-शानच्। समावर्त्तनयोग्ये स्वाध्यायग्रहणावधिकब्रह्मचर्य्य-वति

१ व्रह्मचारिणि
“न पूर्ब्बं गुरवे किञ्चिदुपकुर्वीत धर्म्म-वित्। स्नास्यंस्तु गुरुणाज्ञप्तः शक्त्या गुर्व्वर्थमाहरेत्” मनुना स्नास्यतएव गुरूपकारविधानेन ततः पूर्ब्बमु-पाकारकर्त्तृत्वनिषेधेन चास्यैवोपकर्त्तृत्वात्तथात्वम्। ब्रह्म-चारी हि द्विविधः नैष्ठिक उपकुर्वाणश्च। यो निरवधिमरणान्तम् उपनयनादूर्द्ध्व गुरौ वसति स नैष्ठिकः। यस्तु स्वाध्यायग्रहणान्तं गुरौवसन् गुरुणानुज्ञातः गुरो-रुपकारं कृत्वा स्नानगार्हस्थ्य करोति स उप-कुर्व्वाणः। स्नास्यतो दक्षणा च मनुनोक्तायथा
“क्षेत्रं हिरण्यं गामश्व छत्रोपानहमासनम्। धान्यं शाकञ्च वासांसि गुरवे प्रीतिमावहेत्”। आश्व॰गृ॰

३ ,

८ ,

१ ,

२ तु
“अथैतान्युपकल्पयीत समावर्त्त्यमानेमणिं कुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रजमुन्म-र्द्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचार्य्य च”
“य-द्युभयोर्न विन्देताचार्य्यायैव”। एकादश द्रव्याण्युक्तानिएतच्चोपलक्षणं गुरोरभिलषितं दद्यादित्यत्रैव तात्पर्य्यम्अत एव या॰ स्मृ॰
“गुरवे तु वरं दत्त्वा स्नायीत तदन-ज्ञया” तद्वरदानमेवोक्तम्
“गुरवे पूर्बोक्ताय वरमभिलषितंयथाशक्ति दत्त्वा स्नायात् तदशक्तौ तदनुज्ञयाऽदत्त-वरोऽपि” मिता॰। संज्ञाया कन् तत्रैव।
“उपकुर्वाण-कास्तु स्वाध्यायग्रहणार्थाः” छा॰ उ॰ भा॰। ताच्छील्येचानश्।

२ उपकारशीले त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=उपकुर्व्वाण&oldid=236910" इत्यस्माद् प्रतिप्राप्तम्