उपचारच्छल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपचारच्छल¦ न॰ वाद्युक्त वाक्यस्य तत्तातात् पर्य्याविषयार्थान्तरप-रत्वकल्पनेन छलात्मकासदुत्तररूपे दूषणभेदे। छलस्य सामान्य-लक्षणविभागोपचारलक्षणोदाहरणानि गौ॰ सू॰ वृत्त्योर्दर्शि-तानि यथा।
“वचनविघातो ऽर्थविकल्पोपपत्त्या च्छलम्” सू॰।
“अर्थस्य वाद्यभिमतस्य योविकल्पोविरुद्धः कल्पो अ-र्थान्तरकल्पनेति यावत् तदुपपत्त्या युक्तिविशेषेण योवचनस्यवाद्युक्तस्य विघातोदूषणं तच्छलमित्यर्थः वक्तृतात्पर्य्याविष-यार्थकल्पनेन दूषणाभिधानमिति फलितं तात्पर्य्याविषयत्वंविशेष्येविशेषणे संसर्गे वा यथा नेपालादागतोऽयं नवक-म्बलवत्त्वादित्यत्र नवसंख्यापरत्वकल्पनयाऽसिद्ध्यभिधानं,प्रमेयं धर्म्मत्वादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्य-भिधानं, वह्निमान् धूमादित्यत्र धूमावयवे व्यभिचाराभि-धानम्” वृ॰।
“तत्त्रिविधं वाक्छलं सामान्यच्छलमुपाचारच्छ-लञ्च” सू॰।
“धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचार-छलम्” सू॰।
“धर्मशब्दस्यार्थेन सम्बन्धस्तस्य विकल्पी द्विविधःकल्पः शक्तिलक्षणान्यतरूपस्तथा च शक्तिलक्षयोरेकतर-वृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारच्छलं यथा मञ्चाः क्रोशन्ति नीलोघट इत्यातौ मञ्चस्थाएव क्रोशन्ति न तु मञ्चाः, एवं घटस्य कथं नीलरूपाभेदः,एवं अहं नित्य इति शक्त्या प्रयुक्ते अमुकस्मादुत्पन्नस्त्वंकथं नित्य इति प्रतिषेधोऽप्यु पचारच्छलम्। वाद्यभिप्रेता-[Page1205-b+ 38] र्थस्यादूषणेन छलस्यासदुत्तरत्वम्। न च श्लिष्टलाक्षणिक-प्रयोगाद्वादिन एवापराधः स्यादिति वाच्यं तत्तदर्थबोधक-तया प्रसिद्धस्य शब्दस्य प्रयोगे वादिनोऽनपराधात् अन्यथापर्वतोवह्निमानित्युक्ते पर्वतोऽयं कथमवह्निमानित्यादिदू-षणेनानुमानाद्युच्छेदः स्यात्”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपचारच्छल/ उप-चार--च्छल n. a kind of fallacious inference (to be refuted by reference to the real sense of a word used metaphorically e.g. if any one from the sentence " the platform cries " were to conclude that the platform really cries and not persons on the platform) Nya1yad. Nya1yak.
