उपतन्त्र
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपतन्त्र¦ न॰ उपगतं तन्त्रम् अत्या॰ स॰। शिबोक्ततन्त्रसदृशेसिद्धर्षिकृते तन्त्रभेदे तच्च वाराहीतन्त्रे दर्शितं यथा
“सैद्धोक्तान्युपतन्त्राणि कपिलोक्तानि यानि च। अद्भु-तानि च तन्त्राणि जैमिन्युक्तानि यानि च। वशिष्ठःकपिलश्चैव नारदो गर्ग एव च। पुलस्त्यो भार्गवः सिद्धो-यात्तवल्क्यो भृगुस्तथा। शुक्रो वृहस्पतिश्चैव अन्ये येमुनिसत्तमाः। एभिः प्रणीतान्यन्यानि उपतन्त्राणि यानिच। न संख्यातानि तान्यत्र धर्म्मविद्भिर्महात्मभिः। सारात् सारतराण्येव सङ्ख्यातानि निबोधतेति”।
