सामग्री पर जाएँ

उपदंशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपदंशः, पुं, (उपदश्यते इति । उप + दंश + कर्म्मणि घञ् ।) मद्यपानरोचकभक्ष्यद्रव्यम् । तत्पर्य्यायः । अवदंशः २ चक्षणम् ३ मद्यपासनम् ४ । इति हेमचन्द्रः ॥ (यथा दशकुमारे विश्रुतचरिते -- “द्वित्रान् उपदंशान् उपपाद्य” । “ततस्तस्य शाल्योदनस्य दर्वीद्वयं दत्त्वा सपि- र्मात्रां सूपम् उपदंशं च उपजहार” । इति च ।) मेढ्ररोगविशेषः । वाओ इति भाषा । अथोपदं- श्लेष्मणा कठिनः स्निग्धः कण्डूमान् शीतलोगुरुः ॥ ३ ॥ शोणितेनासितस्फोटसम्भवोऽस्रस्रुतिर्ज्वरः ॥ ४ ॥ सर्व्वजे सर्व्वलिङ्गत्वं श्वयथुर्मुष्कयोरपि” ॥ ५ ॥ असाध्यलक्षणं यथा । “तीव्रा रुगाशुपचनं दरणं क्रिमिसम्भवः । याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः” ॥ इति वाभटे उत्तरस्थाने ३३ अध्याये । अस्य चिकित्सा च यथा ॥ “मेढ्रमध्ये शिरां विध्येदुपदंशे नवोत्थिते । शीतां कुर्य्यात् क्रियां शुद्धिं विरेकेण विशेषतः ॥ तिलकल्कघृतक्षौद्रैर्लेपः पक्वे तु पाटिते । जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान् ॥ शल्लकीवदरीविल्वपलाशतिनिशोद्भवाः । त्वचः क्षीरिद्रुमाणाञ्च त्रिफलाञ्च जले पचेत् ॥ सक्वाथः क्षालनं तेन पक्वतैलञ्च रोपणम् । तुत्थगैरिकलोध्रैलामनोह्वालरसाञ्जनैः ॥ हरेणुपुष्पकाशीससौराष्ट्रीलवणोत्तमैः । लेपः क्षौद्रयुतैः सूक्ष्मैरुपदंशव्रणापहः ॥ कपाले त्रिफला दग्धा सघृता रोपणं परम् । सामान्यं साधनमिदं प्रतिदोषन्तु शोफवत् ॥ न च याति यथा पाकं प्रयतेत तथा भृशम् । पक्वैः स्नायुशिरामांसैः प्रायो नश्यति हि ध्वजः” ॥ इति वाभटे उत्तरस्थाने ३४ अध्यायः ॥ तत्रातिमैथुनादतिब्रह्मचर्य्याद्वा तथा ब्रह्मचा- रिणीं चिरोत्सृष्टां रजस्वलां दीर्घरोमां कर्कशरो- मां सङ्कीर्णरोमां निगूढरोमामल्पद्वारां महाद्वा- रामप्रियामकामामचौक्ष्यसलिलप्रक्षालितयोनि- मक्षालितयोनिं योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेवमानस्य तथा करज-दशन-विष-शूकनिपातनादर्द्दनाद्धस्ता- भिघाताच्चतुष्पदीगमनादचौक्ष्यसलिलप्रक्षालनाद- वपीडनाच्छुक्रमूत्रवेगविधारणान्मैथुनान्ते वाऽप्र- क्षालनादिभिर्मेढ्रमागम्य प्रकुपिता दोषाः क्षते- ऽक्षते वा श्वयथुमुपजनयन्ति तमुपदंशमित्या- चक्षते ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपदंशः [upadaṃśḥ], 1 Anything which excites thirst or appetite, a relish, condiment &c.; मूलकेनोपदंशं भुङ्क्ते Mbh. on P. IV.1.48; cf. P.III.4.47. द्वित्रानुपदंशानुपपाद्य Dk.133; अग्रमांसोपदंशं पिव नवशोणितासवम् Ve.3.

Biting, stinging.

The venereal disease, chancre.

(a) A tree the root of which is used for horse-radish (शिग्रु). (b) N. of another plant (समष्ठिल). -नम् Context; छागोपकरण- मस्योपदंशितं यदुपदंशने पशुशब्दच्छागाभिप्राय इति गम्यते । ŚB. on MS.6.8.35.

"https://sa.wiktionary.org/w/index.php?title=उपदंशः&oldid=237990" इत्यस्माद् प्रतिप्राप्तम्