सामग्री पर जाएँ

उपधातुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपधातुः, पुं, (उप सादृश्ये । धातुसदृशो धातुः ।) अष्टप्रधानधातुसदृशधातुः । स तु सप्तधा यथा । माक्षिकम् १ तुत्थकम् २ अभ्रम् ३ नीलाञ्जनम् ४ मनःशिला ५ हरितालम् ६ रसाञ्जनम् ७ ॥ शरीरस्थधातुभवोपधातुः सप्तधा यथा । रसात् स्तनदुग्धम् १ रक्तात् स्त्रीरजः २ मांसात् वसा ३ मेदसो घर्म्म ४ अस्थ्नो दन्तः ५ मज्जनः केशः ६ शुक्रात् ओजः ७ । इति वैद्यकम् ॥ (“स्तन्यं रजश्च नारीणां काले भवति गच्छति । शुद्धमांसभवस्नेहः सा वसा परिकीर्त्तिता ॥ स्वेदो दन्तास्तथा केशास्तथैवोजश्च सप्तमम् । इति धातुभवा ज्ञेया एते सप्तोपधातवः” ॥ इति शार्ङ्गधरेण पूर्ब्बखण्डे पञ्चमेऽध्याये उक्तम् ॥ “सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम् । तुत्थं कांस्यं च रीतिश्च सिन्दूरश्च शिलाजतु” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपधातुः [upadhātuḥ], An inferior metal, semi-metal. They are seven; सप्तोपधातवः स्वर्णं माक्षिकं तारमाक्षिकम् । तुत्थं कांस्यं च रातिश्च सुन्दूरं च शिलाजतु ॥

A secondary secretion of the body (six in number); e. g. milk, menses, adeps, sweat, teeth, hair, and lymph; स्तन्यं रजो वसा स्वेदो दन्ताः केशास्त- थैव च । औजस्यं सप्तधातूनां क्रमात्सप्तोपधातवः ॥

"https://sa.wiktionary.org/w/index.php?title=उपधातुः&oldid=238303" इत्यस्माद् प्रतिप्राप्तम्