सामग्री पर जाएँ

उपधानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपधानम्, क्ली, (उपधीयते आरोप्यते मस्तकमत्र । उप + धा + अधिकरणे ल्युट् ।) शिरोधानम् ॥ वालिश इति भाषा । तत्पर्य्यायः । उपवर्हः २ । इत्यमरः । गण्डुः ३ । इति जटाधरः । (“सोपधानां धियं धीराः स्थेयसीं खट्टयन्ति ये” । इति माघः २ । ७७ । “पट्टोपधानाध्यासितशिरो- भागेन” । इति कादम्बरी ।) विषम् । प्रणयः । इति मेदिनी । व्रतम् । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=उपधानम्&oldid=119112" इत्यस्माद् प्रतिप्राप्तम्