सामग्री पर जाएँ

उपधूमित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपधूमित¦ त्रि॰ धूमोजातोऽस्य तारका॰ इतच् दाहकायोगात्अल्पं धूमितं प्रा॰ स॰।

१ जातधूमे (धोओयान) यात्रादौवर्ज्जनीये ज्योतिषोक्ते सूर्य्यगन्तव्यदिग्भागे स्त्री
“दग्धादिगैन्द्री ज्वलिता दिगैश्युपधूमिता चानलदिक् प्रभातेप्रत्येकमेवं प्रहराष्टकेन क्रमाद्दिशीऽष्टौ सविता क्रमेत। दग्धा दिगुक्ता दिननाथयुक्ता विवस्वदाप्ता भवति प्रदीप्ता। संधूमिता यां सविता प्रयाता शेषा दिगन्ताः खलु पञ्च-शान्ताः” पेयू॰ वसन्तराजः। तन्निदर्शनचक्रं यथा। दग्धा दीप्ता उपधूमिता

५ शान्ताः

१ यामे ऐशी पूर्व्वा आग्नेयो याम्यादिसौम्यान्ताः

२ यामे पूर्वां आग्नेयी याम्या नैरृत्यादीशानान्ताः

३ यामे आग्नेयी याम्या नैरृती पश्चिमादिपूर्वान्ताः

४ यामे याम्या नैरृती वारुणी वायव्यादिवह्निदिगन्ताः

५ यामे नैरृती पश्चिमा वायवी सौम्यादियाम्यान्ताः

६ यामे पश्चिमा वायवी उत्तरा ईशादिनैरृत्यन्ताः

७ यामे वाववी उत्तरा ऐशो पूर्वादिपग्रिमान्ताः

८ यामे उत्तरा ऐशी पूर्वा आग्नेय्यादिवायव्यन्ताः[Page1213-b+ 38] तत्र प्रहरभेदेन दग्धादित्रिके न गच्छेत् शान्तासु पञ्च-सु गच्छेत्। एवं प्रधूमिता संधूमितादयोऽप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=उपधूमित&oldid=492960" इत्यस्माद् प्रतिप्राप्तम्