उपनय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपनयः, पुं, (उप समीपे नीयते येन कर्म्मणा । उप + नी + अच् ।) उपनयनम् । इति हेमचन्द्रः ॥ (“गृह्योक्तकर्म्मणा येन समीपं नीयते गुरोः । बालो वेदाय तद्योगात् बालस्योपनयं विदुः” ॥ इति स्मृतिः । भावे + अच् । प्रापणम् । यथा, महाभारते ३ । २ । २४ । “मानमस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्” ॥ न्यायमते यो यो धूमवान् स सवह्निमान् अयमपि तथेत्यादिरूपः न्यायावयवभेदः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपनय¦ पु॰ उप + नी--करणे अच्। उपनयने
“गृह्योक्तकर्मणायेन समीपं नीयते गुरोः। बालो वेदाय तद्योगाद्बाल-स्योपनयं विदु” रिति स्मृत्युक्ते
१ संस्कारजनकर्मविशेषे।
“नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगावुपनयःस्मृतिकर्महीनः” ज्योति॰। न्यायमते यो यो धूमवान्स वह्निमान् अयमपि तथेयादिवाक्यरूपे
२ न्यायावयवभेदे,परार्थानुमानसाधकपञ्चावयवान्तर्गतावयवविशेषोपनयलक्ष-णभेदौ न्यायसूत्रवृत्त्योर्दर्शितौ यथा(
“उदाहरणापेक्षस्तथेत्युपसंहारोन तथेति वा साध्य-स्योपनयः” सू॰
“साध्यस्य पक्षस्य उदाहरणापेक्षौदाहर-णानुसारी यौपसंहारौपन्यासः प्रकृतोदाहरणोपदर्शित-व्याप्तिविशिष्टहेतुविशिष्टपक्षविशिष्टबोधजनकोन्यायावयव-इत्यर्थः निगमनं हेतुविशिष्टत्वेन न पक्षबोधकं किन्तु पक्षवृ-त्तिहेतुबोधकमिति तद्व्युदामः। अत्र चान्वयव्यतिरेकव्याप्त्यो-रव्यतरत्वादिनानुगमः कार्य्यौदाहरणोपदर्शितेति तु परि-चायकमात्रमिति तु न वाच्यम् उदाहरणविपरीतव्याप्त्युप-दर्शकोपनयवारकत्वात् वस्तुतोऽवयवपदेनैव तद्व्युदासः। स चोपनयोद्विविधोऽन्वयिव्यतिरेकिभेदात्। तथेति साध्यो-स्योपसंहारोऽन्वय्युपनयः न तथेति साध्यस्योपसंहारोव्यति-रेक्युपनयः अत्र च तथाशब्दप्रयोगावश्यकत्वे न तात्पर्य्यंकिन्तु व्याप्तिविशिष्टवत्त्वबोधे, तथाच वह्निव्याप्यधूमवांश्चा-यमिति वा तथाचायमिति वोपन्यासः एवं व्यतिरेकिण्यपिवह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवांश्चायमिति वा नतथेति वोपन्यासः” वृत्तिःउपनीयते उपस्थाप्यते ज्ञानविषयतामापाद्यतेऽनेन करणेअच्। न्यायमतसिद्धे ज्ञानलक्षणारूपे
३ अलौक्विकप्रत्यक्षसाधने सन्निकर्षभेदे। तयो हि सन्निकर्षरूपया पूर्ब्ब-ज्ञातवस्तुनोऽलौकिकप्रत्यक्षं जन्यते। यथा सुरभि चन्दन-मिति चाक्षुषे चन्दनस्य चक्षुर्ग्राह्यत्वेऽपि सौरभस्य तद-ग्राह्यत्वात् पूर्ब्बज्ञातस्य सौरभस्यालौकिकं प्रत्यक्षं जन्यते[Page1214-b+ 38] तथा च सुरभि चन्दनमित्यत्र सौरभांशेऽलौकिकत्वं चन्द-नांशो तु लौकिकत्वमिति भेदः। ज्ञानलक्षणाकार्य्यकारणभावश्चेत्थं दीधितिकृतोक्तम्।
“इयञ्चधर्म्मवियकं ज्ञानं धर्म्मिणां प्रत्यासत्तिरितरा तु यद्वि-षयकं तस्य प्रत्यासत्तिः। अतएव सुरभि चन्दनमित्यादौसौरभत्वादेरपि भानमिति” व्याख्यातञ्चैतत् जगदीशेन।
“नानु सामान्यं यदि न प्रत्यामत्तिः किन्तु तज्ज्ञानंतदा ज्ञानलक्षणया सह तस्याः कोभेद इत्यत आहइयञ्चेति सामान्यलक्षणा चेत्यर्थः। इतरा ज्ञानलक्षणातस्येति प्रत्यासत्तिरित्यनुषज्यते तथा च कार्य्यकारण-भावभेदादेव प्रत्यासत्त्योः भेद इति भावः। अतएव ज्ञान-लक्षणातएवेत्यर्थः अन्यथा यत्र सौरभत्वजात्युप-स्थित्यनन्तरं सुरभिर्गन्ध इति वत् सुरभिचन्दनमित्या-कारकं सौरभत्वप्रकारेण चन्दनस्य भ्रमात्मकं चाक्षुषंतत्र सौरभत्वजातेर्भानं न स्यात् न हि तत्र सुरभिगन्धस्यभानसम्भवो येन सामान्यलक्षणायास्तद्धर्म्मप्रकारकतदा-श्रयप्रत्यक्षं प्रत्येव हेतुतया सौरभत्वप्रत्यासत्तेः कार्य्यताव-च्छेदकतयैव सौरभत्वजातेर्भानं भविष्यतीति सम्भावनीयम्चक्षुषो वहिरिन्द्रियत्व न स्वायोग्यमुख्यविशेष्यकज्ञानाजन-कत्वनियमात् पूर्व्वाऽनुपस्थितस्य सुरभिगन्धस्य तत्र भाना-सम्भवेनोक्तरीत्या तद्गतजातेरपि तत्र भानादम्भवादितिमावः। इत्यादावित्यादिपदेन भ्रमान्तरस्य तदनुव्यवसायस्यच परिग्रहः। यत्तु ज्ञानस्य तदिन्द्रियजन्यत्वं नियामक-मिति पूर्वमतेनायं ग्रन्थः। तथा च सौरभत्वेन सौर-भस्मृत्यनन्तरं जायमानायां सुरभिचन्दनमित्याकारक चा-क्षुषप्रमायां सामान्यप्रत्यासत्त्या न सौरभत्वस्य भानसम्भवःकारणस्य सौरभत्वचाक्षुषस्यासम्भवादतो ज्ञानलक्षणा पृथक्प्रत्यासत्तिरिति मतं तन्मन्दं ज्ञानस्य तदिन्द्रियजन्यत्वा-पेक्षायां सुरभिगन्धस्यापि तत्र भानासम्भवे सौरभत्वजातिपर्य्यन्तानुसरणस्य सन्दर्भविरोधापत्तेः सोरभत्वादेरित्यादिपदात् सौरभस्य परिग्रहः तेन न सन्दर्भविरोधदोषइति विभावनीयम्। अत्रेदं तत्त्वं यद्यपि घटत्वादि-प्रत्यक्षे तदलौकिकप्रत्यक्षे वा तद्गोचरज्ञानत्वेन ज्ञानलणा-या न हेतुत्वं घटत्वादिनिर्व्विकल्पके प्रमेयत्वादिसामा-न्यलक्षणाजन्यघटत्वादिप्रत्यक्षे च व्यभिचारात् तथापिलौकिकसाधारणं घटत्वादिप्रकारकप्रत्थक्षमात्रं प्रत्येव-घटत्वादिगोचरज्ञानत्वेन हेतुत्वमतएव प्राथमिकघटत्व-चैत्रत्वादिप्रकारकप्रत्यक्षस्य घटत्वचैत्रत्वादिनिर्व्विकल्पिकं[Page1215-a+ 38] विमानुपपत्तेः तत्सिद्धिरप्यावश्यकी पूर्व्वानुभूतवस्तुमात्र-स्यैव तथात्वेन घटत्वाद्यात्मकतत्ताप्रत्यभिज्ञानानुरोधेनैव प-रैरप्युक्तकार्य्यकारणस्याभ्युपेयत्वात्। न चैवं जन्यस्वविष-यकसविकल्पकस्यैव प्रत्यासत्तित्वमिति प्राचीनगाथा-विरोधः तस्या अकिञ्चित्करत्वात् सखण्डघटादेरुप-नीतभानस्थाने एव तथा नियमसम्भवाच्च द्रव्यत्वादिप्रका-रेण घटादेरुपनयसत्त्वेऽपि घटत्वप्रकारेण तस्योपनीतप्रत्य-क्षानुदयेन घटत्वादिना तद्घटादिप्रकारकप्रत्यक्षं प्रतिघटत्वादिप्रकारेणैव तद्घटाद्युपनयस्य हेतुत्वादतएव घट-घटत्वयोर्निर्विकल्पकानन्तरं घटे घटत्वस्यैव घटत्वेऽपिघटस्य न वैशिष्ट्यावगाहि प्रत्यक्षं घटत्वद्रव्यत्वादिप्रकारेणैवघटादीनां विशिष्टबुद्धेः पारमार्थिकतया तद्धेतुभूतस्य घ-टत्वादिप्रकारेण घटादिज्ञानस्य तदानीमसत्त्वात् न चैवंनिर्विकल्पकोत्तरं विशेष्ये विशेषणमित्यादिक्रमेणापि घटव-दित्याकारप्रत्यक्षं न स्यात्, इष्टत्वात् जातीतरनिष्ठप्रकार-तायां किञ्चिदवच्छिन्नत्वनियमात् द्रव्यगुणकर्म्मणां निर-वच्छिन्नप्रकारतानभ्युपगमात्। न च निर्विकल्पकस्य प्रत्या-सत्तित्वे स्वविषयीभूतघटत्वाद्युपधानेन तस्य प्रत्यक्षापत्तिःविषयानुपधानेन ज्ञानादिप्रत्यक्षस्यालीकतया विषयोपना-थकविरहादेव तस्यातीन्द्रियत्वोपगमादिति वाच्यम् सत्यपिसन्निकर्षे प्रत्यक्षसामान्यं प्रत्येवादृष्टत्वादिनेव निर्व्विकल्प-कत्वेनापि तादात्म्यसम्बन्धेन विरोधित्वकल्पनादेवनिर्विकल्पकस्याप्रत्यक्सत्वादन्यथा सुखत्वादिनिर्व्विकल्पकस्यस्वविषयीभूतसुखत्वाद्युपधानेन साक्षात्कारस्य दुर्व्वार-त्वापत्ते सुखत्वस्य निर्विकल्पक इव सुखत्वेऽपि लौकि-कस्यैव मनःसन्निकर्षस्य सत्त्वात् तदुपधाने तन्निर्व्विकल्प-कस्य प्रत्यक्षे बाधकाभावादिति। यत्तु घटादिपकारक-प्रत्यक्षं प्रत्येव घटादिज्ञानत्वेन हेतुत्वे घटादिविशेष्यकघटोद्रव्यमित्याकारमानसोपनीतभानं न स्यादिति तन्नघटादिधर्म्मिकद्रव्यत्वाद्यसंसर्गाग्रहादिवशादेव मानसधियोघटादिविशेव्यकत्वसम्भवात् घट इत्येतन्मात्राकारस्य बाध-निर्ण्णयाप्रतिबध्यमानसप्रत्यक्षस्यासत्त्वेऽपि क्षत्यभावात्। नचैवं घटादेरनुपस्थितिदशायामपि तद्विशेष्यकं मानसप्रत्यक्षंस्यात् तद्धर्म्मिकासंसर्गाग्रहस्य तदानीमपि सत्त्वादिति वाच्यंघटत्वप्रकारकप्रत्यक्षत्वस्य घटनिष्ठालौकिकविशेष्यताकप्रत्यक्ष-त्वव्यापकतया तदवच्छिन्नं प्रति हेतुभूतस्य घटत्वज्ञानस्यविरहादेवानुपस्थितघटादेर्व्विशेष्यविधया मानसग्रहासम्भवात्घटोद्रव्यमित्यादिमानसस्य घटप्रकारकत्वनियमात् अतएव[Page1215-b+ 38]
“उपनीतं विशेषणतयैव भासते” इत्यभिधाय
“मानसे तुनायं नियम” इति प्राचीनैरप्युक्तमित्यलं पल्लवितेन”। भाषा॰मुक्तावल्योश्च
“विषयी यस्य तस्यैव व्यापारोज्ञानलक्षणा”
“ननु ज्ञानलक्षणा प्रत्त्यासत्तिर्यदि ज्ञानरूपा सामान्यल-क्षणापि ज्ञानरूपा यदा तयोर्भेदो न स्यादत आह। विषयीयस्येति सामान्यलक्षणा प्रत्यासत्तिर्हि तदाश्रयस्य ज्ञानंजनयति। ज्ञानलक्षणा प्रत्यासत्तिस्तु यद्विषयकं ज्ञानंतस्यैव प्रत्यासत्तिरिति”।
“एवं ज्ञानलक्षणाया अस्वीकारेसुरभि चन्दनमिति ज्ञाने सौरभस्य भानं कथं स्यात्?। यद्यपि सामान्यलक्षणयापि सौरभमानं सम्भवति तथापि सौरभत्वस्य भानं ज्ञानलक्षणया। एवं यत्र धूमत्वेन धूलीपटलंज्ञातं तत्र धूलीपटलस्यामुव्यवसाये भानं ज्ञानलक्षणया”। अत्र दिनकरः।
“ज्ञानलक्षणास्वीकारे वीजमाह। एवमित्यादिना कथं स्यादिति। चन्दनखण्डस्य चाक्षुषे जायमाने उपस्थितसौरभमानं न स्यात् सौरभांशे चक्षुः-सन्निकर्षाभावादित्यर्थः। सौरभत्वप्रकारकलौकिकप्रत्यक्ष-सामग्य्राः सहकारिण्याविरहेण सौरभत्वसामान्यलक्ष-णयापि सौरभभानं न सम्भवतीति भावः। सुरभि चन्द-नमित्यादौ सौरभादेर्भानं सौरभत्वादिसामान्यलक्षण-यैव सम्भवति। सौरभत्वप्रकारकलौकिकप्रत्यक्षसौरभत्वा-वच्छिन्नप्रकारकप्रत्यक्षान्यतरसामग्रीसहकारेणैव तस्याः फ-लजनकत्वाङ्गीकारात् प्रकृते च द्वितीयसामग्य्राः सह-कारिण्याः सत्त्वादित्यभिप्रायेणाह यद्यपीति सौरभत्वस्यभानमिति स्वरूपतः सौरभत्वस्य भानमित्यर्थः। ज्ञानलक्षणया ज्ञानलक्षणयैव। तदानीं सौरभत्वांशे धर्मा-न्तरस्यागृहीततया सामान्यलक्षणया तज्ज्ञानाऽनिर्वा-हादिति भावः। ननु धर्मान्तरस्य सौरभांशेऽग्रहेऽपिसौरभत्वसामान्यलक्षणयैव सौरभत्वादेर्भानमस्तु सौरभ-त्वप्रकारकसौरभविशेष्यकत्वस्यैव तत्कार्यतावच्छेदकत्वा-दिति चेन्न सौरभत्वादिविषयताप्रयोजिकायाः सामान्य-लक्षणायाः स्वविषयसौरभत्वादिमत्त्वरूपस्य सम्बन्धस्यसौरमत्वेऽभावेन सामान्यलक्षणया तज्ज्ञानानिर्वाहात्सौरभत्वसामान्यलक्षणायाः कार्य्यतावच्छेदके सौरभत्वप्रकारत्वनिवेशे प्रयोजनाभावाच्च। न च ज्ञानलक्षणायाःकारणत्वान्तरकल्पने गौरवभियैव सामान्यप्रकारत्वस्यकार्य्यतावच्छेदके प्रवेश इति शङ्क्यम् विशेषणज्ञानहेतु-तयैव निर्वाहे ज्ञानलक्षणायाः कारणत्वान्तरकल्पनाविरहादिति। ननु विशेषणज्ञानजन्यतावच्छेदक[Page1216-a+ 38] विशिष्टबुद्धित्वं ज्ञानलक्षणयास्तु विशिष्टप्रत्यक्षत्वमितिन कॢप्तेन निर्वाहः, एवं यत्र ज्ञानलक्षणया स्वविषयमुख्यविशेष्यकं मानसं तत्र विशेषणज्ञानकारणतया ननिर्वाह इत्यत आह एवमिति ज्ञानलक्षणया ज्ञानलक्ष-णयैव। तत्र धूमत्वज्ञानरूपसामान्यलक्षणायाः स्ववि-षयधूमत्वाश्रयत्वसम्बन्धेन धूलीपटलेऽभावेन सामान्यलक्षणयानुव्यवसाये धूलीपटलभानासम्भवादिति भावः”। उपनयेन निर्वृत्तः ठक्। औपनयिक ज्ञानलक्षणाजन्येअलौकिके प्रत्यक्षे
“अथ सार्थो यदि भवेद्धेतुस्तर्हि प्रत्यक्षएवौपनयिके” शब्दश॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपनय¦ m. (-यः) The initiation of the three first classes; investiture with a peculiar thread or cord worn over the left shoulder, and under the right: the cord of the Brahman is of cotton, Munja, or Kusa grass; of the Kshetriya, of Sana or flax; and of the Vaisya, of wool: the youths should be invested respectively, from eight to sixteen, from eleven to twenty-two, and from twelve to twenty- four years of age. n. (-नं)
1. Attaining, gaining.
2. Bringing to E. उप over, नीञ् to obtain, अच् affix; also with घञ् affix उपनाय, and with ल्युट् affix उपनयन।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपनयः [upanayḥ], 1 Bringing near, fetching.
Gaining, attaining, procuring. नान्यं तवाङ्घ्रयुपनयादपवर्गमूर्तेः क्षेमं जनस्य परितो भिय ईश विद्मः Bhāg.12.8.43.
Employing
Investiture with the sacred thread, initiation into sacred study, handing a youth of the first three castes to a teacher; गृह्योक्तकर्मणा येन समीपं नीयते गुरोः । बालो वेदाय तद्योगात् बालस्योपनयं विदुः ॥ (By this ceremony spiritual birth is conferred upon the youth, and he becomes a द्विजन्मन्; the ages at which the ceremony may be performed by the three castes are respectively 8-16, 11-22 and 12-24; (see Ms.2.36-38; of what materials &c. the cords should be, is mentioned in 2.41-46).
The fourth member of the five-membered Indian syllogism (in logic), the application to the special case in question; व्याप्तिविशिष्टस्य हेतोः पक्षधर्मताप्रतिपादकं वचनमुपनयः Tarka K.
Introduction, initiation (into any science); see next.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपनय/ उप-नय उप-नयनSee. p. 201 , col. 2.
उपनय/ उप-नय m. the bringing near , procuring MBh.
उपनय/ उप-नय m. attaining , obtaining , obtainment BhP.
उपनय/ उप-नय m. employment , application R.
उपनय/ उप-नय m. application (the fourth member in a five fold syllogism) Sarvad. Tarkas. etc.
उपनय/ उप-नय m. introduction (into any science) VarBr2S.
उपनय/ उप-नय m. initiation = the next L.
