सामग्री पर जाएँ

उपपत्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपपत्तिः, स्त्री, (उप + पद् + क्तिन् ।) सङ्गतिः । निर्वृतिः । समाधानम् । सिद्धान्तः । प्रकरणप्रति- पाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिः । इति वेदान्तसारः ॥ (“उपपत्तिमदूर्ज्जिताश्रयम्” । इति भारविः । २ । १ ॥) हेतुः । यथा, -- “श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः” । इत्यत्र उपपत्तिभिर्बहुभिर्हेतुभिरिति पक्षता- ग्रन्थमाथुरी ॥ सङ्गतिः । यथा, -- “लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः” । इति भाषापरिच्छेदः । ८२ ॥ (उपायः । यथा माघे । “अपेक्षितान्योन्यबलोपपत्तिभिः” । सिद्धिः । प्राप्तिः । “स्वार्थोपपत्तिं प्रति दुर्ब्बलाशः” । इति रघुः ॥ ५ । १२ ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपपत्तिः [upapattiḥ], f.

Happening, occurring, becoming visible, appearance, production, birth; अथोपपत्तिं छलनापरो$- पराम् Śi.1.69 (जन्म); इष्टानिष्टोपपत्तिषु Bg.13.9.

Cause, reason, ground; प्रियेषु यैः पार्थ विनोपपत्तेः Ki.3.52.

Reasoning, argument; उपपत्तिमदूर्जितं वचः Ki.2.1; देवि सोपपत्तिकमभिहितम् । Nāg.5 argumentative; giving a reason for the establishment of a matter; S. D.482.

Fitness, propriety.

Termination, end.

Association, connection.

Acceptance, adoption; Mv.5.

Ascertainment, demonstration, demonstrated conclusion; उपपत्तिरुदाहृता बलात् Ki.2.28.

(In Arith. or Geom.) Proof, demonstration.

A means, an expedient.

Assistance, support, help; ततः प्रजह्रे सममेव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः Ki.14.44.

Doing, effecting, gaining; accomplishment; स्वार्थोपपत्तिं दुर्बलाशः R.5.12; तात्पर्यानुपपत्तितः Bhāṣā P.; H.3.111; see अनुपपत्ति.

Attainment, getting; असंशयं प्राक् तनयोपपत्तेः R.14.78; Ki.3.1.

Religious abstraction (समाधि).

Accident, chance; उपपत्त्योपलब्धेषु लोकेषु च समो भव Mb.12.288.11.

Suitability, expediency; उपपत्ति- मदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः Ki.2.1; Bhag.4.28.68.-Comp. -समः (in logic) a kind of contradiction in which both the contradictory ascertions are supposed to be demonstrable (e. g. sound is eternal because it is produced; it is eternal because it is not tangible). Nyāyadarśana. -परित्यक्त a. Unproved, unreasonable, destitute of argument or proof; Raj. T.

"https://sa.wiktionary.org/w/index.php?title=उपपत्तिः&oldid=238931" इत्यस्माद् प्रतिप्राप्तम्