उपपातक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपपातकम्, क्ली, (उपपातयति नरके यत् । उप + पत् + णिच् + ण्वुल् । यद्वा उपमितं पातकेन ।) पापविशेषः । तत्तु ऊनपञ्चाश- द्विधंयथा । गोबधः १ अयाज्ययाजनम् २ पर- दारगमनम् ३ आत्मविक्रयः ४ गुरुत्यागः ५ मातृत्यागः ६ पितृत्यागः ७ एषां शुश्रूषाद्यकरणं त्यागः । स्वाध्यायत्यागः ८ स तु सर्व्वदा ब्रह्मयज्ञ- त्यागः । अधीतवेदविस्मरणञ्च । अग्नित्यागः ९ स तु स्मार्त्ताग्निहोत्रत्यागः । सुतत्यागः १० स तु तस्य संस्कारभरणाद्यकरणम् । परिवित्तिता ११ सा तु कनिष्ठेन आदौ विवाहे कृते ज्येष्ठस्य परिवेदनं १२ तत्तु अकृतदारज्येष्ठसत्त्वे कनि- ष्ठस्य । तयोः कन्यादानं १३ तयोर्याजनं १४ तत्तु तयोरेव विवाहादौ पौरोहित्यम् । कन्याया दूषणं १५ तत्तुं मैथुनवर्जमङ्गुलीप्रक्षेपादिना रूषणम् । अङ्गुल्या योनिविदारणमिति यावत् । वार्द्धुष्यं १६ तत्तु निषिद्धवृद्धिजीवनम् । व्रतलोपः १७ स तु ब्रह्मचारिणो मैथुनम् । तडागविक्रयः १८ आराम- विक्रयः १९ दारविक्रयः २० अपत्यविक्रयः २१ व्रात्यता २२ सा तु यथाकालमनुपनयनम् । बान्ध- वत्यागः २३ भृताध्यापनम् २४ तत्तु प्रतिनियत- वेतनग्रहणपूर्ब्बमध्यापनम् । भृताध्ययनम् २५ तत्तु वेतनप्रदानपूर्ब्बकाध्ययनम् । अपण्यानां विक्रयः २६ स तु तिललाक्षागोरसादौनां ब्राह्म- णेन विक्रयः । सर्व्वाकरेष्वधीकारः २७ स तु सु- वर्णाद्युत्पत्तिस्थानेषु राजाज्ञया अधिकारः । महा- यन्त्रप्रवर्त्तनं २८ तत्तु महतां उदकप्रवाहप्रतिबन्ध- हेतूनां सेतुबन्धादीनाञ्च प्रवर्त्तनं अथवा तैलादि- यन्त्रस्य शस्त्रतेजनादियन्त्रस्य च । ओषधिहिंसनं २९ तत्तु धान्यादीनां यथाकथञ्चिन्नाशः । स्त्र्या- जीवः ३० स तु भार्य्यादिस्त्रीणां वेश्यात्वं कृत्वा तदुपजीवनम् । अभिचारकर्म्म ३१ तत्तु श्येना- दिना यज्ञेन अनपराद्धस्य मारणम् । मूलकर्म्म ३२ तत्तुमन्त्रौषधादिना वशीकरणम् । इन्धनार्थ- मशुष्कद्रुमाणां छेदनं ३३ आत्मार्थं क्रियारम्भः ३४ स तु अनातुरस्य देवपित्राद्युद्देशमन्तरेण पाका- द्यनुष्ठानम् । निन्दितान्नस्य भक्षणम् ३५ तत्तु लशु- नादेः सकृदनिच्छया अथवा गणकदेवलतस्करा- द्यन्नभक्षणम् । अनाहिताग्निता ३६ सा तु सम- र्थस्य श्रौतस्मार्त्ताग्न्यपरिग्रहः । स्तेयं ३७ तत्तु सुवर्णद्रव्यादन्यसारद्रव्यापहरणम् । देवर्षिपितॄणां ऋणाशोधनं ३८ असच्छास्त्राभिगमनम् ३९ तत्तु श्रुतिस्मृतिविरुद्धशास्त्रशिक्षणम् पाषण्डशास्त्रा- भ्यासो वा । कौशीलव्यक्रिया ४० सा तु तौर्य्य- त्रिकस्य सततानुष्ठानम् । धान्यस्तेयं ४१ पशुस्तेयम् ४२ कुप्यस्तेयम् ४३ मद्यपस्त्रीनिषेवनम् ४४ स्त्रीबधः ४५ शूद्रबधः ४६ वैश्यबधः ४७ क्षत्रियबधः ४८ नास्तिक्यम् ४९ । तत्तु अदृष्टार्थकर्म्माभावबुद्धिः । नास्ति परलोक इति वा । इति मनुः शूलपाणिश्च ॥ (अस्य प्रायश्चित्तादिकं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपपातक¦ न॰ पातयति नरके पत--णिच्--ण्वुल् उप अल्पार्थेसादृश्ये वा प्रा॰ स॰। पातकसदृशे ततोन्यूनफलके पापभेदे।
“महापातकतुल्यानि पापान्युक्तानि यानि तु। तानि पातकसंज्ञानि तन्न्यूनमुपपातकमिति” पैठीनसिः। पतनञ्च
“द्वि-जातिकर्म्मभ्योहानिः पतनं परलोकासिद्धिस्तमेके नरकम्” गौतमोक्तम्। तस्य न्यूनत्वञ्चाल्पफलदातृत्वेन तस्याल्प-फलदातृत्वमाहाङ्गिराः
“पातके तु सहस्रं स्यात् महत्सुद्विगुणं तथा। उपपापे तुरीयं स्यात् नरकं वर्ष्मसंक्षयात्”। ( केन केन कर्मणा च तज्जन्यते तन्निरूपितं प्रा॰ वि॰। तत्र मनुः।
“गोबधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयः। पितृमातृगुरुत्यागः स्वाध्यायाग्नेः सुतस्य च। परि-वित्तिता चानुजेन परिवेदनमेव च। तयोर्दानञ्च कन्या-यास्तयोरेव च याजनम्। कन्याया दूषणञ्चैव वार्द्धुषित्वंव्रतच्युतिः। तडागारामदाराणामपत्यस्य च विक्रयः। व्रात्यताबान्धवत्यागो भृतकाध्यापनन्तथा। भृताच्चाध्य-यनादानमपण्यानाञ्च विक्रयः। सर्व्वाकरेष्वधीकारोमहायन्त्रप्रवर्त्तनम्। हिंसौषधीनां स्त्र्याजीवोऽभिचारोमूलकर्म्म च। इन्धनार्थमशुषकाणां द्रुमापामवपातनम्। आत्मार्थञ्च क्रियारम्भो निन्दितान्नादनन्तथा। अनाहि-ताग्निता स्तेयमृणानाञ्चानपक्रिया। असच्छास्त्राधिगमनं कौशीलव्यस्य च क्रिया। धान्यकुप्यपशुस्तेयं मद्य-पस्त्रीनिषेवणम्। स्त्रीशूद्रविट्क्षत्रबधोनास्तिक्यञ्चोपपा-तकम्”।
“अस्यार्थः। अयाज्यसंयाज्यमिति प्रतिग्रहा-ध्यापनङ्कथयति। त्यागो योगक्षेमाकरणम्। अनिमित्तंस्वाध्यायत्यागोऽधीतवेदविस्मरणम्। अग्नित्याग आल-स्यादिना। सुतत्यागः पोषणविनयाधानाद्यकरणेन चका-राद्भार्य्यात्यागोऽपि। परिवित्तिता कनिष्ठस्य भ्रातुर्दारा-ग्निहोत्रसयोगे सति ज्येष्ठस्य भ्रातुर्दाराग्निहोत्रसंयोग-प्रागभावः। कनिष्ठस्य परिवेदनं, चकारात् कन्याया अपितथाभूतायाः परिवेदनीयत्वम्। परिवित्तिपरिवेदयोर्वर-त्वेन कन्यादानम्। तयोरेव विवाहादौ ऋत्विक्कार्य्यमिति। कन्याया दूषणमकन्येत्युक्तिः अङ्गुल्या योनिविदारणं वा[Page1225-a+ 38] वार्द्धुषिकत्वं ब्राह्मणक्षत्रिययोः। व्रतच्युतिरवकीर्णत्वम्। दाराणामपि परिणीतानामपि विक्रयः। अपत्यस्यानेक-विधस्य। व्रात्यता यथाकालमनुपनयनमसोमयाजित्वञ्च। बान्धवत्यागो बान्धवस्य सपिण्डादेरनिमित्तत्यागः। भृत-काध्यापनम् मूल्येन वेतनादिना विद्यार्पणम्। भृताच्चवेतनपरिगृहीताद्वेदादि विद्याग्रहणम्। अपण्यानां लाक्षा-दीनां सकृत्, गोरसादीनां चासकृत्, ब्राह्मणेन विक्रयः। सर्वाकरेषु सुवर्ण्णाद्युत्पत्तिस्थानेषु नियोगः। तैलादियन्त्रस्यशस्त्रतेजनादियन्त्रस्य च प्रवर्त्तनम्। धान्यादीनां यथाकथञ्चिन्नाशनं स्त्रियार्ज्जितधनजीवनम्। अभिचारः पर-हिंसार्थं जपादिकर्म, मूलकर्म वशीकरणं मूलादिक्रिया। इन्ध-नार्थम् द्रुमाणामशुष्काणां छेदनम्। आत्मार्थं पाकक्रियान वैश्वदेवाद्यर्था। गणदेवलकतस्काराद्यन्नभक्षणम्। सा-मार्थ्येऽपि श्रौतस्मार्त्ताग्न्यपरिग्रहः। स्तेयं हेमनरा-श्वरजतभूमिमणिनिक्षेप्रेतरद्रव्यहरणम्। देवर्षिपितृसम्ब-न्धिन ऋणस्यानपशोधनम्। असंच्छास्त्राभिगमनम् पाष-ण्डशास्त्राभ्यासः। कुशीलवस्य कर्म तौर्य्यत्रिकं तस्य सत-तानुष्ठानम्। कुप्यस्यासारद्रव्यस्यताम्रकांस्यादेः स्तेयम् म-द्यपस्त्रिया मद्यपायाश्च स्त्रिया निषेवणम् ब्राह्मणेन। स्त्रियाःशूद्रवैश्यक्षत्रियाणाञ्च बधः। नास्तिक्यं नास्ति परलोकइति व्यवसितिः। उपपातकमेकैकम्
“एकैकमुपपातकमिति” याज्ञवल्क्यवचनात्। एवञ्च गोबधादिनास्तिक्यान्तानिपञ्चाशदुपपातकानि। विष्णुना
“अनृतवचनमुत्कर्षे राज-गामि च पैशुन्यम्। गुरोश्चालीकनिर्बन्धःवेदनिन्दाऽधोतस्य चत्यागः” अन्यानि च मनूक्तानि उक्त्वा
“उपपातकिनश्चैते कुर्युश्चान्द्रायणं नराः” इति उपपातके दर्शितम्। तत्र नृपादिसभासु परापकारव्यतिरेकेणात्मन उत्कर्षख्या-पनं तथा राज्ञः पुरतः परापकारव्यतिरेकेण परदोष-कीर्त्तनम्। श्रुतमात्रोपकारकगुरोर्निथ्याभिशंसनम्। तथा परिहासादिना वेदनिन्दा तथाऽसच्छास्त्राभियोगेना-धीतवेदविस्मरणञ्च यल्लघु तदुपपातकं गुरूणां पुनरेतेषांमनुनाऽनुपातके दर्शितत्वात्। अन्यानि चोपपातकानिस्मृत्यन्तरेऽनुसन्धेयानि”।
“गोवधोब्रात्यतास्तेयमृणानाञ्चानपक्रिया। अनाहिता-ग्निताऽपुण्यविक्रयः परिवेदनम्। भृतादध्ययनादानंभृतकाध्यापनन्तथा। पारदार्यं पारिवित्त्यं वार्द्धुष्यं लवणक्रिया। स्त्रीशूदविट्क्षत्रबधो निन्दितार्थोपजीवनम्। नास्तिक्यं व्रतलोपश्च सुतानाञ्चैव विक्रयः। धान्यकु-[Page1225-b+ 38] प्यपशुस्तेयमयाज्यानाञ्च याजनम्। पितृमातृसुतत्याग-स्तडागारामविक्रयः। कन्यासन्दूषणञ्चैव परिवेदकया-जनम्। कन्याप्रदानन्तस्यैव कौटिल्यं व्रतलोपनम्। आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम्। स्वाध्या-याग्निसुतत्यागो बान्धवत्याग एव च। इन्धनार्थन्द्रुम-च्छेदः स्त्रीहिंसौषधजीवनम्। हिंस्रयन्त्रविधानञ्चव्यसनान्यात्मविक्रयः। शूद्रप्रेष्यं हीनसख्यं हीन-योनिनिषेवणम्। तथैवानाश्रमे वासः परान्नपरिपुष्टता। असच्छास्त्रादिगमनमाकरेष्वधिकारिता। भार्य्याया विक्र-यश्चैषामेकैकमुपपातकम्” या॰।
“गोवधोगोपिण्डव्यापा-दनम्। कालेऽनुपनीतत्वं व्रात्यता। ब्राह्मणसुवर्ण्णत-त्समव्यतिरिक्तपरद्रव्यापहरणं स्तेयम्। गृहीतस्य सु-वर्णादेरप्रदानमृणानामनपाकरणम् तथा देवर्षिपि-तॄणां सम्बन्ध्यृणस्यानापाकरणञ्च। सत्यधिकारे अना-हितानग्नित्वम्। ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्ग-भूताग्निनिष्पत्त्यर्थमाधानम्प्रयुञ्जत इति मीमांसकप्रसि-द्धिरतश्च यस्याग्निभिः प्रयोजनन्तस्य तदुपायभूताधानेप्रवृत्तिर्ब्रीह्याद्यर्थिनैब धनार्जने यस्य पुनरग्निभिः प्रयो-जनं नास्ति तस्याप्रवृत्तिरिति कथमनाहिताग्निता-दोषः उच्यते। अस्मादेवाधानस्यावश्यकत्ववचनादनित्य-श्रुतयोऽपि साधिकारत्वाविशेषादाधानस्य प्रयोजिका इतिस्मृतिकाराणामभिप्रायो लक्ष्यत इत्यदोषः। तथाअपण्यस्य लवणादेर्विक्रयः। सहोदरस्य ज्येष्ठस्य तिष्ठतःकनीयसोम्रातुर्दाराग्निसंयोगः परिवेदनम्। पणपूर्ब्बा-ध्यापकादध्ययनग्रहणम्। पणपूर्ब्बाध्यापनम्। परदा-रसेवनङ्गुरुदारतत्समव्यतिरेकेण। पारिवित्त्यं कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम्। वार्द्धुष्यम्प्र-तिषिद्धवृद्ध्युपजीवित्वम्। लवणक्रिया लवणस्योत्पाद-नम्। स्त्रियाबधो ब्राह्मण्या अपि आत्रेयीव्यतिरेकेण। शूद्रबधः। अदीक्षितविट्क्षत्रबधः निन्दितार्थोपजीव-नम् अराजन्याद्यर्षितार्थोपजीवनम्। नास्तिक्यं ना-स्ति परलोक इत्याद्यभिनिवेशः। व्रतलोपो ब्रह्मचारिणःस्त्रीप्रसङ्गः। सुतानामपत्यानां विक्रयः ध्यान्यं व्रीह्यादिकुप्यमसारद्रव्यन्त्रपुसीसादि पशवोगवादयस्तेषामपहर-णम्।
“गोबधो व्रात्यतास्तेयम्” इत्यनेन स्तेयग्रहणे-नैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं निन्दार्थमतेधान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यमेतदेव प्रायश्चित्तमपितु ततोन्यूनमपि भवत्येव। एतेन बान्धवत्यागग्रहणे-[Page1226-a+ 38] नैव सिद्धे पुनः पित्रादित्यागग्रहणं व्याख्यातम्। अयाज्यानाञ्जातिकर्मदुष्टानां शूद्रव्रात्यादीनां याज-नम्। पितृमातृसुतानामपतितानां त्यागो गृहान्नि-ष्काशनम्। तडागस्यारामस्य चोद्यानोपवनादेर्विक्रयः। कन्यायादूषणमङ्गुल्यादिना योनिविदारणं न तु सम्भोगस्तस्य
“सखिभार्य्या कुमारीष्विति” गुरुतल्पसमत्वस्योक्तत्वात्। परिविन्दकयाजनन्तस्य च कन्याप्रदानम्। कौटिल्यङ्गुरो-रन्यत्र गुरुविषयस्य तु कौटिल्यस्य सुरापाणसमत्वमुक्तम्। पुनर्ब्रतलोपग्रहणं शिष्टाप्रतिषिद्धेष्वपि हरिचरणकमलप्रेक्ष-णात्प्राक्ताम्बूलादिकन्न भक्षयामित्येवंरूपेषु प्राप्त्यर्थं न तुस्नातकव्रतप्राप्न्यर्थन्तत्र
“स्नातकब्रतलोपे च प्रायश्चित्तमभोजनमिति” मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात्तथात्मार्थञ्च पाकलक्षणक्रियारम्भः
“अघं स केवलम्भुङ्क्ते यःपचत्यात्मकारणादिति” तस्यैव प्रतिषिद्धत्वात्। क्रियामात्रविषयत्वे तु प्रतिषेधकल्पनागौरवं स्यात्। मद्यपायाःस्त्रियोजायाया अपि निषेवणमुपभोगः। स्वाध्यायत्यागोव्याख्यातः अग्नीनाञ्च श्रौतस्मार्त्तानान्त्यागः सुतत्यागःसंस्काराद्यकरणम्। बान्धवानाम्पितृव्यमातुलादीना-न्त्यागः सति विभवे अपरिरक्षणम्। पाकादिदृष्टप्रयो-जनसिद्ध्यर्थमार्द्रद्रुमच्छेदोन त्वाहवनीयपरिरक्षणार्थमपि। स्त्रिया हिंसया औषधेन च जीवनं वर्त्तनं स्त्री-हिंसौषधजीवनम्। तत्र स्त्रीजीवनं नाम भार्य्याम्पण्यभावेन प्रयोज्य तल्लब्धोपजीवनम् स्त्रीधनोपजीवनं वा। हिंसया जीवनम्प्राणिबधेन जीवनम्। औषधजीवनंवशीकरणेन। हिंस्रयन्त्रस्य तिलेक्षुपीडनकरस्य प्रवर्त्तनम्। व्यसनानि मृगयादीन्यष्टादश। आत्मविक्रयोद्रव्यग्रहणेनपरदास्यकरणम्। शूद्रसेवनं हीनेषु मैत्रीकरणम्। अनूढसवर्णदारस्य केवलहीनवर्णदारोपयमनम्, सा-धारणस्त्रीसम्भोगश्च। अनाश्रमे वासः अगृहीताश्रमि-त्वम्। परपाकरतित्वम्। असच्छास्त्रस्य चार्वाकादिग्रन्थस्याधिगमः। सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषुराजाज्ञयाधिकारित्वम्। भार्य्यायाविक्रयः। चशब्दा-न्मन्वाद्युक्ताभिचाराऽमतिपूर्ब्बलशुनादिभक्षणादेर्ग्रहणम्। एषां गोवधादीनाम्प्रत्येकमुपपातकसंज्ञावेदितव्या” मिता॰। उपपापमप्यत्र।
“जलोदरं यकृत्प्लीहाशूलरोगव्रणानि च। श्वासजीर्ण्णज्वरच्छर्द्दि भ्रममोहगलग्रहाः। रक्तार्बुदविस-र्पाद्या उपपापोद्भवा गदाः” शाता॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपपातक¦ n. (-कं) A great crime, as killing a cow, selling a daughter, atheism, &c.; it is considered as criminality in the second or third degree, and is of various kinds: see महापातक। E. उप much, and पातक a crime.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपपातकम् [upapātakam], A minor sin, crime or sin of the second degree; महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातक- संज्ञानि तन्न्यूनमुपपातकम् ॥ Y.2.21; Ms.11.66.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपपातक/ उप-पातक n. a secondary crime , minor offence (as killing kine , forgetting the वेद, breaking a vow of chastity , offending a Guru , selling the सोमplant etc. ) Gaut. xxi , 11 , etc. Baudh. ii , 2 , 12-14 , etc. Mn. xi , 66 , etc. Hariv. etc. (See. also Ya1jn5. ii , 210 ; iii , 225 ; 242 ).
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
UPAPĀTAKA (UPAPĀPA) (M : inor sins). In accord- ance with the Rāṣtramīmāṁsā (political philosophy) of Ancient India, crimes were divided into two types. They were called Upapātakas (minor crimes) and Pātakas (major crimes). To know about major crimes (Pātakas) see under Pāpa (sin). Upapātakas are given below:--Cow-slaughter; sacrificing by one who is unworthy to perform it; seducing another man's wife; forsaking one's father, mother and teacher; forsaking self-study, agni (fire) and son; becoming Parivettā (one who gets married before one's elder brother is married.) Younger brother finishing education before the elder; giving an unmarried girl to Parivitti or Parivettā; performing sacrifice by a parivitti or a parivettā; slan- dering an unmarried girl; Living on the interest of money that is lent; violating one's vow; selling pond, garden, wife or son; becoming an outcaste; forsaking relatives; Teaching the Vedas after receiving remune- ration; selling things which should not be sold; working in mines; working with big machinery; destroying medicinal herbs; living by women; to impede rites; cut down fresh trees (not dried) for fire-wood; kidnap- ping women; mingling with slanderers of women; selfish activities; eating forbidden rice; not keeping Sacrificial fire; theft; not repaying loan; learning for- bidden sciences; doing things which are bad and will cause grief to others; stealing of base metals, grains and cows; contact with drunken women; killing women, Śūdra, Vaiśya and Kṣatriya and becoming an infidel are all Upapātakas.
Causing grief to a Brahmin; inhaling the smell of liquor and other prohibited things; resorting to tricks or deceit and engaging in pederasty are sins which would make one an outcaste.
Slaughter of dog, donkey, camel, lion, sheep, jungle- goat, fish, serpent and mungoose are sins of a mixed character.
Receiving money from the despicable; buying and selling; serving a śūdra; telling a lie; acting so as to render oneself unworthy; killing worms and birds; eating food along with liquor; stealing fruits, flowers and butea; and becoming a coward are also sins.
_______________________________
*1st word in right half of page 808 (+offset) in original book.
