सामग्री पर जाएँ

उपपातकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपपातकम्, क्ली, (उपपातयति नरके यत् । उप + पत् + णिच् + ण्वुल् । यद्वा उपमितं पातकेन ।) पापविशेषः । तत्तु ऊनपञ्चाश- द्विधंयथा । गोबधः १ अयाज्ययाजनम् २ पर- दारगमनम् ३ आत्मविक्रयः ४ गुरुत्यागः ५ मातृत्यागः ६ पितृत्यागः ७ एषां शुश्रूषाद्यकरणं त्यागः । स्वाध्यायत्यागः ८ स तु सर्व्वदा ब्रह्मयज्ञ- त्यागः । अधीतवेदविस्मरणञ्च । अग्नित्यागः ९ स तु स्मार्त्ताग्निहोत्रत्यागः । सुतत्यागः १० स तु तस्य संस्कारभरणाद्यकरणम् । परिवित्तिता ११ सा तु कनिष्ठेन आदौ विवाहे कृते ज्येष्ठस्य परिवेदनं १२ तत्तु अकृतदारज्येष्ठसत्त्वे कनि- ष्ठस्य । तयोः कन्यादानं १३ तयोर्याजनं १४ तत्तु तयोरेव विवाहादौ पौरोहित्यम् । कन्याया दूषणं १५ तत्तुं मैथुनवर्जमङ्गुलीप्रक्षेपादिना रूषणम् । अङ्गुल्या योनिविदारणमिति यावत् । वार्द्धुष्यं १६ तत्तु निषिद्धवृद्धिजीवनम् । व्रतलोपः १७ स तु ब्रह्मचारिणो मैथुनम् । तडागविक्रयः १८ आराम- विक्रयः १९ दारविक्रयः २० अपत्यविक्रयः २१ व्रात्यता २२ सा तु यथाकालमनुपनयनम् । बान्ध- वत्यागः २३ भृताध्यापनम् २४ तत्तु प्रतिनियत- वेतनग्रहणपूर्ब्बमध्यापनम् । भृताध्ययनम् २५ तत्तु वेतनप्रदानपूर्ब्बकाध्ययनम् । अपण्यानां विक्रयः २६ स तु तिललाक्षागोरसादौनां ब्राह्म- णेन विक्रयः । सर्व्वाकरेष्वधीकारः २७ स तु सु- वर्णाद्युत्पत्तिस्थानेषु राजाज्ञया अधिकारः । महा- यन्त्रप्रवर्त्तनं २८ तत्तु महतां उदकप्रवाहप्रतिबन्ध- हेतूनां सेतुबन्धादीनाञ्च प्रवर्त्तनं अथवा तैलादि- यन्त्रस्य शस्त्रतेजनादियन्त्रस्य च । ओषधिहिंसनं २९ तत्तु धान्यादीनां यथाकथञ्चिन्नाशः । स्त्र्या- जीवः ३० स तु भार्य्यादिस्त्रीणां वेश्यात्वं कृत्वा तदुपजीवनम् । अभिचारकर्म्म ३१ तत्तु श्येना- दिना यज्ञेन अनपराद्धस्य मारणम् । मूलकर्म्म ३२ तत्तुमन्त्रौषधादिना वशीकरणम् । इन्धनार्थ- मशुष्कद्रुमाणां छेदनं ३३ आत्मार्थं क्रियारम्भः ३४ स तु अनातुरस्य देवपित्राद्युद्देशमन्तरेण पाका- द्यनुष्ठानम् । निन्दितान्नस्य भक्षणम् ३५ तत्तु लशु- नादेः सकृदनिच्छया अथवा गणकदेवलतस्करा- द्यन्नभक्षणम् । अनाहिताग्निता ३६ सा तु सम- र्थस्य श्रौतस्मार्त्ताग्न्यपरिग्रहः । स्तेयं ३७ तत्तु सुवर्णद्रव्यादन्यसारद्रव्यापहरणम् । देवर्षिपितॄणां ऋणाशोधनं ३८ असच्छास्त्राभिगमनम् ३९ तत्तु श्रुतिस्मृतिविरुद्धशास्त्रशिक्षणम् पाषण्डशास्त्रा- भ्यासो वा । कौशीलव्यक्रिया ४० सा तु तौर्य्य- त्रिकस्य सततानुष्ठानम् । धान्यस्तेयं ४१ पशुस्तेयम् ४२ कुप्यस्तेयम् ४३ मद्यपस्त्रीनिषेवनम् ४४ स्त्रीबधः ४५ शूद्रबधः ४६ वैश्यबधः ४७ क्षत्रियबधः ४८ नास्तिक्यम् ४९ । तत्तु अदृष्टार्थकर्म्माभावबुद्धिः । नास्ति परलोक इति वा । इति मनुः शूलपाणिश्च ॥ (अस्य प्रायश्चित्तादिकं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपपातकम् [upapātakam], A minor sin, crime or sin of the second degree; महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातक- संज्ञानि तन्न्यूनमुपपातकम् ॥ Y.2.21; Ms.11.66.

"https://sa.wiktionary.org/w/index.php?title=उपपातकम्&oldid=239022" इत्यस्माद् प्रतिप्राप्तम्