उपमानम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपमानम्, क्ली, (उपमीयते इति । उप + मा + ल्युट् ।) उपमा । इत्यमरः ॥ (यथा, कुमारे । ४ । ५ । “उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया” । सादृश्यज्ञानम् । उपमितिकरणम् । यथा गौर्गवय- स्तथेतिवाक्ये । “प्रसिद्धसाधर्म्म्यात् साध्यसाधन- मुपमानम्” । इति न्यायसूत्रम् । प्रसिद्धस्य पूर्ब्बप्रमितस्य गवादेः साधर्म्म्यात् सादृश्यात् तज्- ज्ञानात् साध्यस्य गवयादिपदवाच्यत्वस्य साधनं सिद्धिरुपमानमुपमितिर्यत इत्यध्याहारेण च करणलक्षणम् । अत्र च वैधर्म्मोपमितिमपि मन्यन्ते टीकाकृतः । यथा च अतिदीर्घग्रीवत्वादिपश्व- न्तरवैधर्म्म्यज्ञ नत् । उष्ट्रे करभपदवाच्यताग्रहः । एवमन्योऽपि उमानस्य विषय इति भाष्यं । तथा मुद्गपर्णीसदृशी ओषधी विषं हन्तीत्यतिदेश- वाक्यार्थे ज्ञाते मुद्गपर्णीसादृश्यज्ञाने जाते इय- मोषधी विषहरणीत्युपमित्या विषयीक्रियते इत्यादि ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपमानम् [upamānam], 1 Comparison, resemblance; जातास्तदूर्वो- रुपमानबाह्याः Ku.1.36.
The standard of comparison, that with which anything is compared; one of the four requisites of an उपमा; उपमानममूद्विलासिनां Ku.4.5; उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः V.2.3; Śi.2.49.
(In Nyāya Phil.) Analogy, recognition of likeness, considered as one of the four kinds of pramāṇas or means of arriving at correct knowledge. It is defined as प्रसिद्धसाधर्म्यात् साध्यसाधनम्; or उपमितिकरण- मुपमानं तच्च सादृश्यज्ञानात्मकम् Tarka. K. तन्न विश्वसनीयं वो राक्षसानां रणाजिरे । एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ॥ Rām.6. 5.54.
A particle of comparison. -Comp. -उपमेयभावः relation between the subject of comparison and the standard of comparison. -चिन्तामणिः m. N. of a philosophical work.
