सामग्री पर जाएँ

उपमालङ्कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपमालङ्कारः, पुं, (उपमैव अलङ्कारः ।) साम्या- लङ्कारः । यथा । उपमामाह । “साम्यं वाच्यमवैधम्म्यं वाक्यैक्ये उपमा द्वयोः” । तद्भेदाः । सा द्विविधा । पूर्णा लुप्ता च । तल्ल- क्षणम् । यथा, -- “सा पूर्णा यदि सामान्यधर्म्म औपम्यवाचि च” । इयं पुनः श्रौत्यार्थी च । तल्लक्षणन्तु । “श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि । आर्थी तुल्यसमानाद्यास्तुल्यार्थो यत्र वा वतिः” ॥ द्वे त्रिधा । तद्धिते समासेऽथ वाक्ये । उदाहरणम् । “सौरभमम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ । हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले” ॥ अत्र क्रमेण त्रिविधा श्रौती । “मधुरः सुधावदधरः पल्लवतुल्योऽतिपेलवः पाणिः । चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः” ॥ अत्र क्रमेण त्रिविधा आर्थी । पूर्णा षडेव तत् । “लुप्ता सामान्यधर्म्मादेरेकस्य यदि वा द्वयोः ॥ त्रयाणां वानुपादाने श्रौत्यार्थी सापि पूर्ब्बवत्” ॥ इयञ्च तद्धिते श्रौत्या असम्भवात् पूर्ब्बोक्तरीत्या पञ्चप्रकाराः । उदाहरणम् । “मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये । वाचः सुधा इवौष्ठस्ते विम्बतुल्यो मनोऽश्मवत्” ॥ “सा लुप्ता पञ्चधा पुनः । आधारकर्म्मविहिते द्विविधे च क्यचि क्यङि । कर्म्मकर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः” ॥ उदाहरणम् । “अन्तःपुरीयसि रणेषु सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः । दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- सञ्चारमत्र भुवि सञ्चरसि क्षितीश” ॥ तदेवं दशप्रकारा लुप्ता । सा पुनर्द्विधा । वाक्य- गता समासगता च । यथा । “उपमानानुपादाने द्विधा वाक्यसमासयोः” । श्रौत्यार्थोत्वभेदेन चतुर्व्विधत्वसम्भवेऽपि प्राचीन- रीत्या द्विप्रकारत्वमेवोक्तम् । पुनर्द्विधा । “औपम्यवाचिनो लोपे समासे क्विपि च द्विधा” उदाहरणम् । “वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्” । “गर्द्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः” पुनर्धर्म्मोपमानयोर्लोपे द्विधा । तद्यथा । “द्विधा समासे वाक्ये च लोपे धर्म्मोपमानयोः” । उदाहरणम् । “तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम्” । पुनर्द्विधा । “क्विप्समासगता द्वेधा धर्म्मे वादिविलोपने” । उदाहरणम् । विधवति मुखाब्जमस्या इत्यादि । “उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि” । उदाहरणम् । “अरातिविक्रमालोकविकश्वरविलोचनः । कृपाणोदग्रदोर्द्दण्डः स सहस्रायुधीयति” ॥ धर्म्मोपमेयलोपेऽन्या च । उदाहरणम् । “यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्व्वे” । त्रिलोपे च समासगा । यथा । राजते मृगलोच- नेत्यादि । “तेनोपमाया भेदाः स्युः सप्तविंशतिसंख्यकाः” । पूर्णा षड्विधा । लुप्ता चैकविंशतिविधेति मि- लित्वा सप्तविंशतिप्रकारोपमा” । इति साहित्य- दर्पणस्य १० परिच्छेदात् संगृहीतः ॥

"https://sa.wiktionary.org/w/index.php?title=उपमालङ्कार&oldid=119242" इत्यस्माद् प्रतिप्राप्तम्