उपरव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपरव¦ पु॰ उप + रु--आधारे घञ्। सोमाभिषवाङ्गे गर्त्ताकारेदेशभेदे। तत्करणप्रकारश्च” शत॰ ब्रा॰
३ ,
५ ,
४ ,
१ --
१३ उक्तः यथा
“द्वयं वा अभ्युपरवाः खायन्ते। शिरो वै यज्ञस्यहविर्धानं तद्य इमे शीर्षंश्चत्वारः कूपा इमावह द्वाविमौद्वौ तानेवैतत् करोति तस्मादुपरवान् खनति। देवाश्च वाअसुराश्च उभये प्राजापत्याः पस्पृधिरे। ततोऽसुरा-एषु लोकेषु कृत्य। वलगान्निचखु रेतयैव चिद्देवानभिभवेमेति। तद्वै देवा अस्पृण्वत। त एतैः कृत्यां वल-गानुदखनन् यदा वै कृत्यामुत्खनन्त्यथ सालसा मोघाभवति तथो एवैष एतद्यद्यस्सा अत्र कश्चिद्ध्विषन् भ्रा-तृव्यः कृत्यां वलगान्निखनति तानेवैतद्दुष्किरति तस्मा-दुपरवान् खनति सदक्षिणस्य हविर्धानयाधोऽधः प्रौगंखनति। सोऽभ्रिमादत्ते
“देवस्य त्वा सवितुः प्रसवे ऽश्वि-नोर्वाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्य्यसीति” समानएतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाहनार्यसीति। तान् प्रादेशमात्रं विना परिलिखति। इदमहं रक्षसां ग्रीवा अपिकृन्तामीति वज्रो वा अ-भ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्वति। तद्यावेतौ पूर्वौ तयोर्दक्षिणमेवाग्रे परिलिखेदथापर-योरुत्तरमथापरयोर्दक्षिणमथ पूर्व्वयोरुत्तरम्। अ-थी इतरथाहुः अपरयोरेवाग्र उत्तरं परिलिखेदथपूर्बयोर्दक्षिणमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरमित्यथो[Page1284-b+ 38] अपि समीच एव परिलिखेदेतं त्वेवोत्तमं परिलिखेद्यएष पूर्वयोरत्तरोभवति तान् यथापरिलिखितमेव यथा-पूर्वं खनति। वृहन्नसि वृहद्रवा इत्युपस्तौत्येवैनानेतन्महयत्येव यदाह वृहन्नसि वृहद्रवा इति वृहतीमिन्द्रायवाचं वदेतीन्द्रो वै यज्ञस्य देवता वैष्णवं हविर्धानं तत्सेन्द्रं करोति तस्मादाह वृहतीमिन्द्राय वाचं वदेति र-क्षोहणं वलगहनमिति रक्षसां ह्येते बलगानां बधायखायन्ते वैष्णवीमिति वैष्णवी हि हविर्धाने वाक्, तान् यथा-खातमेवोत्किरति। इदमहं तं वलगमुत्किरामि यंमे निष्ट्योयममात्यो निचखानेति निष्टोवा अमात्योवा कृत्यां वलगान्निखनति तानेवैदुत्किरति इदमहंतं वलगमुत्किरामि। यं मे समानो यमसुमानोनिचखानेति समानोवा असमानो वा कृत्यां वलगान्नि-खनति तानेवैतदुत्किरति। इदमहं तं वलगमुत्कि-रामि। यं मे सबन्धुर्यमसबन्धुर्निचस्मानेति सबन्धुर्वाअसबन्धुर्वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति। इदमहं तं वलगमुत्किरामि यं मे सजातो यमसजातोनिचखानेति सजातोवा असजातोवा कृत्यां वलगान्नि-खनति तानेवैतदुत्किरत्युत्कृत्यां किरामीत्यन्तत उ-द्वपति तत्कृत्यामुत्किरति तान्वाहुमात्रान् खनेत्। अन्तोवा एषोऽन्तेनैवैतत् कृत्यां मोहयति तानक्ष्णया संतृन्द-न्ति यद्यक्ष्णया न शक्नुयादपि समीचस्तस्मादिमे प्राणाःपरः संतृण्णाः तान् यथाखातमेवावमर्शयति”
“सोमाभिषवायोपरवाणां खननं विवक्षुः खननस्योभयार्थतामाहद्वममिति। कर्णच्छिद्रे द्वे नासिकाच्छिद्रे द्वे। द्वेष्यवधार्थं भूमौ स्थापिताः कृत्याविशेषा वलगाः। अस्पृण्वतः हिंसितवन्तः। मध्ये मध्ये प्रादेशमात्रान्तरालंविहाय समचतुरस्रे खननप्रदेशे चतुरोऽवटान् प्रादे-शमात्रान् परिलिखेत् खननमपि परिलेखनक्रमेणकर्त्तव्यम्। खातायामृद उद्वपनेऽपि खननक्रम एव। अङ्गुलिप्रादेशाद्यपेक्षया बाहुप्रमाणस्यान्तत्वम् ततोऽधि-कात् प्रदेणात् मृदुद्धरणस्याशक्यत्वाद्बाहुमात्रस्यान्त-त्वम् तानक्ष्णय संतृन्दन्ति पूर्वयोर्दक्षिणस्यापरयोरुत्तरस्यचान्तरालदेशम्। अन्तःप्रदेशनिम्नोन्नतत्वपरिहारायसंमृशेत् संमृशेते परस्परहस्तसंस्पर्शं कुर्य्याताम्”। भा॰
“उत्तरपूर्ब्बे जुहोत्युपरवे” कात्या॰
२५ ,
१२ ,
१० ,
“उपरवदेशात् स्तम्बयजुर्हरति”
८ ,
३ ,
१३ ,
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपरवः [uparavḥ], A sort of hole used in the extraction of Soma juice (सोमाभिषबाङ्गो गर्ताकारो देशभेदः); name of certain holes which increase the sound of the stones when Soma juice is being extracted); cf. also पीठपादचतुष्टयाकारो बाहुमात्रो गर्तभेद उपरवः । ŚB. on MS.11.4.52.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपरव/ उप-रव m. ( रु) , a hole (over which the सोमis ground ; so called from its increasing the sound of the grindstones) TS. S3Br. Ka1tyS3r.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपरव पु.
(उप + रु + अप्, उप उपरि ग्राव्णः शब्दो यत्र) अध्वर्यु द्वारा उपरव = संज्ञक गर्त (गड्ढा) निर्माण करते समय पढ़े जाने वाले यजुष् ‘रक्षोहणो बलगहनो------’, का नाम, श्रौ.को. (अं.) 2.292; चि.भा.से. दक्षिणी शकट (हविराधान) के सामने भूमि में अनुस्वनन = गूँज के लिए खोदे गये चारों छिद्रों के नाम, आप.श्रौ.सू. 11.11.1 यह खनन क्रिया अध्वर्युकतृक है। प्रत्येक गर्त या छिद्र एक दूसरे से एक बीता की दूरी पर होते हैं, दो उपरव दो पंक्तियों में खोदे जाते हैं, जिनकी गहराई एक हाथ होती है एवं व्यास एक बित्ता तथा पृष्ठ भाग पर पृथक्कृत किन्तु अन्तर्भूमि के रास्तों से जुड़े होते हैं, बौ.श्रौ.सू. 6.25; का.श्रौ.सू. 8.4.28 (दक्षिणस्यानसोऽधः प्रउगं खनत्युपरवान्); माप, आप.शु. 2.7.5.6; मन्त्र उपरव संज्ञक गर्तों (गड्ढों) को बनाने के लिए प्रयुक्त मन्त्र, मी.सू. 11.4.5.2।
