सामग्री पर जाएँ

उपवासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपवासः, पुं, (उप + वस + घञ् ।) अग्न्याधानम् । इति मलमासतत्त्वम् । अहोरात्रभोजनाभावः । तत्पर्य्यायः । उपवस्तम् २ । इत्यमरः ॥ उपोषितम् ३ उपोषणम् ४ औपवस्तम् ५ । इति तट्टीका ॥ अस्य प्रमाणम् । “उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्व्वभोगविवर्ज्जितः” ॥ अस्यार्थः । उपावृत्तस्य निवृत्तस्य । पापेभ्यः पाप- कर्म्मभ्यः । गुणाः । सर्व्वभूतेषु दया क्षान्तिः अन- सूया शौचं अनायासः मङ्गलं अकार्पण्यं अस्पृहा च । सर्व्वभोगविवर्ज्जितः शास्त्राननुमतनृत्यगी- तादिसुखरहितः । वैधोपवासे भोजनचतुष्टय- निवृत्तिमाह महाभारते । “सायमाद्यन्तयोरह्नोः सायं प्रातश्च मध्यमे । उपवासफलं प्रेप्सोर्वर्ज्यं भक्तचतुष्टयम्” ॥ उपवासदिने वर्ज्जनीयानि । अञ्जनम् । रोचनम् । गन्धः । पुष्पम् । माल्यम् । अलङ्कारः । दन्तधाव- नम् । गात्राभ्यङ्गः । शिरोभ्यङ्गः । ताम्बूलम् । यच्चा- न्यत् बलरागकृत् । दिवास्वापः । अक्षक्रीडा । मैथुनम् । स्तीणां सरागसम्प्रेक्षणस्पर्शौ । व्रतादिषु पुत्त्रोत्पत्तिपर्य्यन्तं ऋतौ सकृत् स्त्रीगमने न दोषः ॥ तत्पूर्ब्बापरदिने वर्ज्जनीयानि । कांस्यपात्रे भोज- नम् । मांसभोजनम् । सुरापानम् । मधुपानम् । लोभः । वितथमाषणम् । व्यायामः । व्यवायः दिवास्वापः । अञ्जनम् । शिलापिष्टभक्षणम् । म- सूरभक्षणम् । पुनर्भोजनम् । अध्वगमनम् । यानम् । आयासः । द्यूतक्रीडा । अभ्यङ्गः । परान्नम् । तैलम् । चणकम् । कोरदूषकम् । शाकम् । अधिकधृतम् । अत्यम्बुपानम् । इति एकादशीतत्त्वम् ॥ उपवासा- सामर्थ्ये प्रतिनिधिः । स्कन्दपुराणम् ॥ “पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा । एषामभाव एवान्यं ब्राह्मणं विनियोजयेत्” । इति । “भार्य्या भर्तृव्रतं कुर्य्यात् भार्य्यायाश्च पतिस्तथा । असामर्थ्ये द्वयोस्ताभ्यां व्रतभङ्गो न जायते” ॥ इति गरुडपुराणम् ॥ तदनुकल्पः । “नक्तं हविष्यान्नमनोदनञ्च फलं तिलाः क्षीरमथाम्बु चाज्यम् । यत्पञ्चगव्यं यदि वाथ वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च” ॥ इति वायुपुराणम् ॥ “उपवासासमर्थश्चेदेकं विप्रन्तु भोजयेत् । तावद्धनानि वा दद्याद्यद्भक्ताद्द्विगुणं भवेत् ॥ सहस्रसम्मितां देवीं जपेद्वा प्राणसंयमान् । कुर्य्याद्द्वादशसंख्याकान् यथाशक्ति व्रते नरः” ॥ इति ब्रह्मवैवर्त्तपुराणम् ॥ “अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः । हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” ॥ इति बौधायनः ॥

"https://sa.wiktionary.org/w/index.php?title=उपवासः&oldid=119428" इत्यस्माद् प्रतिप्राप्तम्