उपवासी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपवासी, [न्] त्रि, (उपवासोऽस्यास्तीति । उप- वास + इनि ।) उपवासयुक्तः । अहोरात्रभोजना- भावविशिष्टः ॥ (“विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः” । इति महाभारते ३ । मार्कण्डेयसमस्यापर्ब्बणि दानकथने । १९९ । ५१ ॥ “दिवोपवासी तु निशामिषाशी जटाधारः सन् कुलटाभिलाषी । अयं कषायारुणचारुदण्डः शठाग्रणीः सर्पति विश्वभण्डः” ॥ इति हास्यार्णवः ॥)
