सामग्री पर जाएँ

उपवीतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपवीतम्, क्ली, (उप + वि + इ + क्त ।) वामस्कन्धा- र्पितं यज्ञसूत्रम् । यज्ञसूत्रमात्रम् । इत्यमरः ॥ पैता इति भाषा । (यदुक्तमुपनिषदि । “ऊर्द्ध्वन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात् तस्यैको ग्रन्थिरिष्यते” ॥ देवलश्चाह । “यज्ञोपवीतकं कुर्य्यात् सूत्राणि नवतन्तवः” । तद्द्वयमेव सर्व्वदा धारणीयं उत्तरीयवस्त्राभावे तु तत्त्रितयं धारणीयम् । यदुक्तम् । “यज्ञोपवीते द्वे धार्य्ये श्रौते स्मार्त्ते च कर्म्मणि । तृतीयमुत्तरीयार्थं वस्त्रालाभेऽतिदिश्यते” ॥ तत्सूत्रभेदश्च मनुना वर्णभेदेन उक्तः । २ । ४४ । यथा, “कार्पासमुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्” ॥ यथा, माघे । १ । ७ । “कृतोपवीतं हिमशुभ्रमुच्चकैः” । “मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः” । इति कुमारे । ६ । ६ ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपवीतम् [upavītam], [उप-वे-क्त]

Investiture with the sacred thread.

The sacred thread worn by the first three classes of the Hindus; पित्र्यमंशमुपवीतलक्षणं मातृकं च धनु- रूर्जितं दधत् R.11.64; मुक्तायज्ञोपवीतानि Ku.6.6; Śi.1.7; Ki.12.23; Ms.2.44,64,4.36,66.

"https://sa.wiktionary.org/w/index.php?title=उपवीतम्&oldid=240812" इत्यस्माद् प्रतिप्राप्तम्