सामग्री पर जाएँ

उपशयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपशयः, पुं, (उप + शी + अच् ।) निदानपञ्चकान्त- र्गतरोगज्ञानजनकः । तस्य लक्षणम् । “हेतुव्याधिविपर्य्यस्तविपर्य्यस्तार्थकारिणाम् । औषधान्नविहाराणामुपयोगं सुखावहम् ॥ विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः” । इति निदानम् ॥ (“अस्मिन्नर्थे उपशयः पुनर्हेतु- व्याधिविपरीतानां विपरीतार्थकारिणाञ्चौषधा- हारविहाराणां उपयोगः सुखानुबन्धः” । इति चरके निदानस्थाने प्रथमोऽध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=उपशयः&oldid=119470" इत्यस्माद् प्रतिप्राप्तम्