उपसदी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपसदी¦ स्त्री उप + सद--घञर्थे क गौ॰ ङीष्। सन्ततौधारायाम्।
“स्वगृहेऽस्योपसद्यां मा च्छैत्सीत् प्रजाता चपशुभिश्चाशितम् षत॰
१४ ,
९ ,
४ ,
२३ । अस्य यजमानस्य उप-सद्यां सन्ततौ” भा॰। सन्ततिश्च द्वेधा कालिकी दैशिकी च। तत्र समानानेककालिककार्य्यमात्रधर्मत्वं कालिकसन्तति-त्वम्। विभिन्नकालीनघटपटादिकार्य्यमात्रवृत्तिधर्मघटत्वादौसन्ततित्ववारणाय समानेति सामान्यञ्चान्वयितावच्छेदक-धर्मेण। तेन सत्त्वद्रव्यत्वादिना घटपटयोः समत्वेऽपि नक्षतिः। सत्त्वद्रव्यत्वादिकमादाय तद्वारणाय कार्य्य-मात्रेति। एककालोत्पन्नेषु बहुषु घटेषु तद्वारणायअनेककालिकेति। दैशिकसन्ततित्वञ्च समानानेकवृत्तिकार्य्यमात्रधर्मत्वमितिभेदः। तत्र कालिकसन्ततेः प्रवा-हादिपदेन व्यपदेशः यथा ज्ञानप्रवाहः, दुःखप्रवाहः इत्यादिदैशिकसन्ततौ तु श्रेणिप्रभृतिशब्दव्यवहारः यथा वृक्ष-श्रेणी वृक्षपङ्क्तिरित्यादि। उभयसन्ततौ तु सन्ततिधारादिशब्दप्रयोगः यथा ज्ञानधारा सुखधारा दुःखसन्तति-रित्यादि एवं जलधारा तैलधारा तैलसन्ततिरित्यादि। तादृशधर्मश्च सुखत्वदुःखत्वज्ञानत्वादिकं वृक्षत्वतैलत्वादिकञ्च। उभयविधापि सन्ततिः पुनर्द्विविधा अविच्छिन्ना विच्छिन्ना चदेशकालयोरव्यवधानेऽविच्छिन्ना यथा धारावाहिक स्थलेज्ञानादिधारा। तयोर्व्यवधाने विच्छिन्ना यथा विच्छिद्य वि-च्छिद्यजायमानदुःखानाम। विच्छिन्नसन्ततिमादायैव सृष्टि-[Page1334-b+ 38] प्रवाहः। सुखदुःखसन्ततिरित्यादिर्व्यवहारः।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपसदी [upasadī], Ved.
A body of attendants (collectively).
Continuity.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपसदी/ उप-सदी f. ( उप)continuous propagation S3Br. xiv. 9 , 4 , 23 (= संततिComm. )
