उपसम्पन्न
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपसम्पन्नः, त्रि, (उप + सम् + पद् + क्त ।) यज्ञार्थ- हतपशुः । तत्पर्य्यायः । प्रमीतः २ प्रोक्षितः ३ । पाकेन रूपरसादिसम्पन्नव्यञ्जनादिः । तत्पर्य्यायः । प्रणीतः २ । इत्यमरः । पर्य्याप्तः । संस्कृतः । प्राप्तः । मृतः । इति हेमचन्द्रः ॥ (यथा, मनुः । ५ । ८१ । “श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत्” ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपसम्पन्न वि।
यज्ञहतपशुः
समानार्थक:प्रमीत,उपसम्पन्न,प्रोक्षित
2।7।26।2।2
परम्पराकं शमनं प्रोक्षणं च वधार्थकम्. वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते॥
सम्बन्धि1 : यज्ञः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः
उपसम्पन्न वि।
पाकेन_संस्कृतव्यञ्जनादिः
समानार्थक:प्रणीत,उपसम्पन्न
2।9।45।2।2
शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम्. प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्.।
: लोहशलाकया_पक्वमांसः, द्रव्यान्तरसंस्कृतपक्वम्, ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः
पदार्थ-विभागः : पक्वम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपसम्पन्न¦ त्रि॰ उप + सम्--पद + क्त।
१ प्राप्ते
२ मृते च हेम॰।
“श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत्” मनुः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपसम्पन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Dressed, cooked.
2. Immolated, sacrificed, (as a victim, &c.)
3. Dead, deceased.
4. Gained, obtained.
5. Enough, sufficient.
6. Perfected, finished. E. उप and सम् prefixed to पद् to go, affix क्त।