उपसम्पन्नः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपसम्पन्नः, त्रि, (उप + सम् + पद् + क्त ।) यज्ञार्थ- हतपशुः । तत्पर्य्यायः । प्रमीतः २ प्रोक्षितः ३ । पाकेन रूपरसादिसम्पन्नव्यञ्जनादिः । तत्पर्य्यायः । प्रणीतः २ । इत्यमरः । पर्य्याप्तः । संस्कृतः । प्राप्तः । मृतः । इति हेमचन्द्रः ॥ (यथा, मनुः । ५ । ८१ । “श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत्” ॥)
