उपसर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्गः, पुं, (उप + सृज् + घञ् ।) रोगभेदः । (यथा, सुश्रुते । “क्षीणं हन्युश्चोपसर्गाः प्रभूताः” ।) उप- प्लवः । इति मेदिनी ॥ (यथा, मार्कण्डेये ९२ । ७ । “उपसर्गानशेषांस्तु महामारीसमुद्भवान्” ।) धातोः पूर्ब्बवर्त्तिविंशतिसंख्यकप्राद्यव्ययम् । यथा । प्र । परा । अप । सम् । नि । अव । अनु । निर् । दुर् । वि । अधि । सु । उत् । परि । प्रति । अभि । अति । अपि । उप । आङ् । अस्य प्रमाणम् । “निपाताश्चादयो ज्ञेयाः उपसर्गास्तु प्रादयः । द्योतकत्वात् क्रियायोगे लोकादवगता इमे” ॥ स त्रिधा । “धात्वर्थं बाधते कश्चित्” । यथा आदत्ते । “कश्चित्तमनुवर्त्तते” । यथा प्रसूते । “तमेव विशिनष्ट्यन्यः” । यथा प्रणमति । “उप- सर्गगतिस्त्रिधा” । अपि च । “उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । नीहाराहारसंहारप्रतीहारप्रहारवत्” ॥ इति मुग्धबोधटीकायां दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्ग पुं।

शुभाशुभसूचकः

समानार्थक:अजन्य,उत्पात,उपसर्ग

2।8।109।1।3

अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम्. मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्ग¦ पु॰ उप + सृज--घञ्।

१ रोगविकारे

२ उपद्रवे, शुभा-शुभसूचके

३ दिव्यादिविकाररूपे उत्पाते, व्याकरणोक्तेषु
“निपाताश्चादयोज्ञेयाः प्रादयस्तूपसर्गकाः। द्योतकत्वात्क्रियायोगे लोकादवगता इमे” इत्यक्तलक्षणेषु क्रियायोगे

४ प्रादिषु च।
“उपसर्गाः क्रियायोगे” पा॰।
“यत्र प्रा-दीनामन्वयस्तं प्रत्येवोपसर्गतेतिद्योतनाय योगग्रहणम्। तेन निर्गतः सेचको यस्मादिति वाक्ये निःसेचक इत्यादी नषत्वम्” शब्देन्दु॰। ते च द्वाविंशतिविधा यथा, प्र, पराअप, सम्, अनु, अव, निस्, निर् दुस्, दुर्, वि, आङ्,नि, अधि, अपि, अति, सु, उत्, अति, प्रति, परि,उप एते प्रादयः। निस् दुस् इति सान्तौ
“निसस्तपतावनासेवने” पा॰ सूत्रे निस इति निर्द्देशात्। निष्कृतंदुष्कृतमित्युदाहृत्य इदुदुपधस्य रो विसर्जनीयः” इतिभाष्योक्तेश्च
“निरःकुष इति”
“सुदुरोरधिकरणे” इति चपा॰ निर्द्देशात् रान्तावपि” मनी॰। निर्दुरोरभेदारोपेणक्वचिद्विंशतिधाकथनं द्रष्टव्यम्।
“तस्य त्रिधा प्रवृत्तिः
“धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते। तमेव विशि-नष्ठ्यन्य उपसर्गगतिस्त्रिधा। क्रमेणोदाहरणानि यथा। आदत्ते प्रसूते प्रणमतोति। अपि च।
“उपसर्गेण धात्वर्थोबलादन्यत्र नीयते। प्रहाराहारसंहारबिहारपरिहारवत्”।
“विभावोपसर्गे”
“द्व्यन्तरुपसर्गेभ्योऽपईत्” पा॰। ( प्रादयस्तूपसर्गा न सार्थकाः, सार्थकाश्च चादयो निपातावाचकत्वात् उपसर्गास्तु न तथा किन्तु द्योतका इति नैयायि-काः। वैयाकरणास्तु उभयेऽपि द्योतका इति मेनिरे तदेतत्[Page1335-b+ 38] वै॰ भू॰ दर्शितम्
“प्रादयोद्योतकाश्चादयोवाचका इति नै-यायिकमतमयुक्तम् वैषम्ये वीजाभावादिति ध्वनयन्निपातानांद्योतकत्वं समर्थयते।
“द्योतकाः प्रादयो येन निपाताश्चा-दयस्तथा। उपास्येते हरिहरौ लकारोदृश्यते यथा” येन हेतुना प्रादयोद्योतकास्तेनैव हेतुना चादयोनिपाता-स्तथा द्योतका इत्यर्थः। अयं भावः। ईश्वरमनुभव-तोत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः भवतीत्यत्रा-प्यापत्तेः। नोपसर्गार्थः तथा सत्यप्रकृत्यर्थतया तत्राख्याता-र्थानन्वयापत्तेः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्प-त्तेः अनुगच्छतीत्यादौ अनुभवादिप्रत्ययापत्तेश्च। न विशि-ष्टार्थः गौरवात्। तथा च धातोरेव विद्यमानत्वांदिवाचकस्यलज्ञणा उपसर्गस्तात्पर्य्यग्राहक इत्यस्तु। तथा च तात्पर्य्य-ग्राहकत्वमेव द्योतकत्वमिति। तच्च चादिष्वपि तुल्यम्चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदलक्ष्यम्इवशब्दस्तात्पर्य्यग्राहक इत्यस्य सुवचत्वादिति। स्वयंयुक्त्यन्तरमाह। उपास्येते इति। अत्र ह्युपासनाकिमुपसर्गार्थः? विशिष्टस्य? धातुमात्रस्य? वा। नाद्यःतथा सति स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मक-त्वस्यासधातोरुपासनारूपफलवाचकत्वेनाभावादकर्मकत्वाप-त्तेस्ततः कर्मणि लकारोन स्यात्। न द्वितीयः गौरवात्। तृतीये त्वागतं द्योतकत्वं तात्पर्य्यग्राहकत्वलाभात् इतिभावः। दृश्यते इत्यत्र कर्मणीति शेषः। तच्चादिष्वपि तुल्य-मित्याह।
“तथान्यत्र निपातेऽपि लकारः कर्म्मवाचकः। विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः”। (अन्थत्र)साक्षात्क्रियते अलङ्क्रियते उरीक्रियते शिव इत्यादौ। अ-त्रापि धातोस्तत्तदर्थे कर्म्मणि लकारसिद्ध्यर्थं तत्तदर्थवाच-कत्वं वाच्यमित्युपसर्गवद्द्योतकत्वममीषामपीत्यर्थः। यद्यपिकृधातोः सकर्मकत्वमस्त्येव तथाप्येष्वर्थेषु सकर्मकता नस्यात्। अन्यथा वायुर्विकुरुते सैन्धवा विकुर्वत इत्यत्रापिस्यादिति भावः। अथोपासनासाक्षात्कारादि निपाता-र्थोऽस्तु
“साक्षात्प्रत्यक्षतुल्ययोरिति” कोषस्वरसात् तदनु-कूलोव्यापार एव धात्वर्थोऽस्तु स्वस्वयुक्तनिपातान्यतरार्थ-फलव्यधिकरणव्यापारवत्त्वं सकर्मकत्वमपि सुवचमितिदृष्टान्तदार्ष्टान्तिकावयुक्ताविति नेदं साधकभिति चेन्ननामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवेन निपातधात्व-र्थयोरन्वयासम्भवात्। अन्यथा तण्डुलः पचतीत्यत्रापिकर्म्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति। किञ्चप्रादीनां वाचकत्वे भूयान् प्रकर्षः कीदृशोनिश्चय इतिवद्भु-[Page1336-a+ 38] यान् प्र{??}कीदृशोनिरित्यपि स्यात्। अस्मन्पते प्रादेरनर्थ-कत्वान्न तदन्वय इत्यत एव द्योतकता तेषां स्यादिति। साधकान्तरमभिप्रेत्याह। विशेषणेति। शोभनः समुच्चयोद्रष्टव्य इति वच्छोभनश्च द्रष्टव्य इत्यस्यान्वयापत्तेस्तुल्यस-माधेयत्वादिति भावः। अपि च निपातानां वाचकत्वेप्राति-पदिकार्थयोर्विना षष्ठ्यादिकं भेदेनान्वयासम्भवः। अन्यथाराजा पुरुष इत्यस्य राजसम्बन्धी पुरुष इत्यप्यापत्तेरित्य-भिप्रेत्याह आदीति। धवखदिरयोः समुच्चय इति वद्धवस्यच खदिरस्य चेत्येव स्यादिति भावः। ननु प्रातिपदिकार्थयोरभेदान्वयबोधे विभक्तिजन्योपस्थितिर्हेतुरिति कार्य्य-कारणभावो निपातातिरिक्तविषय एवेति नोक्तदोष इत्या-शङ्क्याह।
“पदार्थः सदृशान्वेति विभागेन कदा च न। नि-पातेतरसङ्कीचे प्रमाणं किं विभावय”। (सदृशा) सदृशेनसमानाधिकरणेनेति यावत्। (अन्वेति) अभेदेनेति शेषः। (विभागेन) असदृशेन असमानाधिकरणेनेति यावत्। अयमर्थः समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिर्निपातातिरिक्तविषयेति क्वल्पने मानाभावोगौरवञ्च। अ-स्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायंदोषः अतएव घटोनास्तोत्यादौ घटपदं तत्प्रतियोगिकेलाक्षणिकमिति नैयायिकाः। अपि च निपातानां वाचकत्वेकाव्यादावन्वयोन स्यादिति साधकान्तरमाह।
“शरैरुस्रै-रिवोदोच्यान् उद्धरिप्यन् रसानिव। इत्यादावन्वयोनस्यात्सुपाञ्च श्रवणं ततः”। अत्रोस्रसदृशैः शरैः रससदृ-शानुदीच्यानुद्धरिष्यन्नित्यर्थः। अयञ्चोस्रादिशब्दानां त-त्सदृशपरत्वे इवशब्दस्य द्योतकत्वे च सङ्गच्छते। अन्यथाप्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिविरोधः। तथाहि। उस्रैरिति करणे तृतीया। न चोस्रोऽत्र-करणम् इवार्थसदृशस्य करणत्वेऽपि तस्य करणत्वं नानेनबोधयितुं शक्यम् अप्रकृत्यर्थत्वात्। इबशब्दस्य चास-त्वार्थकतया तदुत्तरतृतीयाया असम्भवात्। सम्भवे वाश्रवणप्रसङ्गात्। उस्रपदोत्तरतृतीयानत्वयप्रसङ्गाच्चेत्याह। सुपां चेति। सुपां श्रवणञ्चेत्यर्थः। चकारादुस्रपदोत्तर-तृतोयानन्वयः समुच्चोयते इत्यादावित्यादिपदात्
“वाग-र्थाविव सम्पृक्तौ वन्दे पार्वतीपरमेश्वरौ” इत्यत्र वागर्थयो-र्वन्दिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वयः इवार्थस्यकर्म्मत्वान्वयबोधासम्भवश्च संगृह्यते। यदि च विशेषण-विभक्तिरभेदार्था साधुत्वमात्रार्था वा तदापि इवशब्दस्यवाचकत्वेऽनन्वय एव उस्रसदृशशराणां समानाधिकरणपदो-[Page1336-b+ 38] पस्थाप्यतया भेदेनान्वयायोगात्। बाधादभेदेनापि नसः। नह्युस्राभिन्नसदृशाभिन्नः शर इत्यर्थ एष्टव्यः”। ( उत्पातरूप उपसर्गश्च त्रिविधः
“अतिलीभादसत्याद्वानास्तिक्याद्वाऽप्यधर्मतः। नरापचारान्नियतमुपसर्गः प्रवर्त्तते। अतोऽपचारान्नियतमपवर्ज्जन्ति देवताः। ताःसृजन्त्यद्भुतास्तावद्दिव्यनाभसभूमिजान्। तएव त्रिविधा लोके उत्-पाता देवनिर्म्मिताः। विचरन्ति विनाशाय रूपैः सम्भा-वयन्ति च” गर्गः।
“उपसर्गमृते चैव सद्यः शौचं विघी-यते” पराश॰। उपद्रवरीगकृताश्चोपसर्गा सुश्रु॰ उक्ताः
“दैव-बलप्रवृत्ता ये देवद्रोहादभिशस्तका अथर्वकृता उपसर्गकृता-श्च तेऽपि द्विविधा विद्युदशनिकृताः पिशाचादिकृताश्च पुनश्चद्विविधाः संसर्गजा आकस्मिकाश्च”
“उपसर्गादयोरोगाये चाप्यागन्तवः स्मृताः” क्षीणं हन्युश्चोपसर्गाः प्रभूताः” सुश्रुतः उपद्रवशब्दे विवृतिः।
“उपसर्गानशेषांस्तु महा-मारीसमुद्भवान्। तथा त्रिविधमुत्पातं माहात्म्यंशमयेन्मम” देवीमा॰। तस्मै प्रभवति सन्तापा॰ तेननिर्वृत्तम् वा ठञ्। औपसर्गिक तत्र पर्य्याप्ते तेन निर्वृ-त्ते च त्रि॰। औपसर्गिकात्यन्तमरकपीडायाम् शु॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्ग¦ m. (-र्गः)
1. A portent, a natural phænomenon supposed to an- nounce future evil, an eclipse, &c.
2. A particle prefixed to roots, &c., a preposition.
3. A disease, possession by an evil spirit.
4. Change occasioned by any disease.
5. A disease brought on whilst a person labours under another.
6. Indication or symptom of death. E. उप near or with, सृज् to go, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्गः [upasargḥ], 1 Sickness, disease, change occasioned by a disease; also a disease superinduced on another; क्षीणं हन्युश्चोपसर्गाः प्रभूताः Suśr.

Misfortune, trouble, calamity, injury, harm; प्रशमिताशेषोपसर्गाः प्रजाः Ratn.1.1; सोपसर्गं वो नक्षत्रम् M.4. sorrow; आपेदे उपसर्गस्तं तमः सूर्यमिवासुरम् Rām.2.63.2.

Portent, natural phenomenon foreboding evil.

An eclipse.

An indication or symptom of death.

Addition.

Possession by an evil spirit.

A preposition prefixed to roots; निपाताश्चादयो ज्ञेयाः प्रादयस्तूपसर्गकाः । द्योतकत्वात् क्रियायोगे लोकादवगता इमे ॥ उपसर्गास्तु विज्ञेयाः क्रियायोगेन विंशतिः । विवेचयन्ति ते ह्यर्थं नामाख्यातविभक्तिषु ॥ बृहद्देवता; आख्यातमुपगृह्यार्थविशेषमिमे तस्यैव सृजन्तीत्युपसर्गाः । Durga under Nirukta 1.3. उपेत्य नामाख्यातयोरर्थस्य विशेषं सृजन्त्युत्पादयन्ती- त्युपसर्गाः । Skanda. The नाट्यशास्त्र defines उपसर्ग thus: प्रातिपदिकार्थयुक्तं धात्वर्थमुपसृजन्ति ये स्वार्थैः । उपसर्गा उपदिष्टास्तस्मात् संस्कारशास्त्रे$स्मिन् ॥ A poetaster has framed the following समस्यापूरण stanza with the rule उपसर्गाः क्रियायोगे (Pāṇini I.4.59); उपसर्गाः क्रियायोगे पाणिनेरपि संमयम् । निष्क्रियो$पि तवारातिः सोपसर्गः सदा कथम् ॥ Upasargas are 2 in number: प्र, परा, अप, सम्, अनु, अव, निस् or निर्, दुस् or दुर्, वि, आ (ङ्), नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप; or 22 if निस्-निर् and दुस्-दुर् be taken as separate words. There are two theories as to the character of these prepositions. According to one theory roots have various meanings in themselves (अनेकार्था हि धातवः); when prepositions are prefixed to them they simply bring to light those meanings already existent but hidden in them, but they do not express them, being meaningless themselves; cf. Śi.1.15: सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे । विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ According to the other theory prepositions express their own independent meanings; they modify, intensify, and sometimes entirely alter, the senses of roots; cf. Sk.: उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ cf. also धात्वर्थं बाधते कश्चित्कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्य उपसर्गगतिस्त्रिधा ॥ (The latter theory appears to be more correct. For a fuller exposition see Nirukta).

An obstacle; ते समाधावुपसर्गा व्युत्थाने सिद्धयः । योगसूत्रs 3.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्ग/ उप-सर्ग उप-सर्जनSee. col. 2.

उपसर्ग/ उप-सर्ग m. ( g. न्यङ्क्व्-आदिPa1n2. 7-3 , 53 )addition AitBr. iv , 4 , 1 ; 2 RPra1t.

उपसर्ग/ उप-सर्ग m. misfortune , trouble , a natural phenomenon (considered as boding evil) R. Prab. Ratna1v. Das3. etc.

उपसर्ग/ उप-सर्ग m. an eclipse (of a star) Comm. on Mn. iv , 105

उपसर्ग/ उप-सर्ग m. (in med.) a fit , paroxysm (supposed to be possession by an evil spirit) Sus3r.

उपसर्ग/ उप-सर्ग m. a disease superinduced on another Sus3r. ii , 429 , 13

उपसर्ग/ उप-सर्ग m. change occasioned by any disease L.

उपसर्ग/ उप-सर्ग m. indication or symptom of death L.

उपसर्ग/ उप-सर्ग m. a निपातor particle joined to a verb or noun denoting action , a preposition(See. also गतिand कर्म-प्रवचनीय; they are enumerated Pa1n2. 1-4 , 58 ; in the वेदthey are separable from the verb) Pa1n2. 1-4 , 59 ; vi , 3 , 97 ; 122 Ka1ty. Pat. RPra1t. APra1t. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्ग पु.
(उप + सृज् + घञ्) सोम के डण्ठलों पर निग्राभ्य संज्ञक जल उड़ेलना, आप.श्रौ.सू. 12.1०.1०; 2. प्रथम तीन पादों के अन्त में एवं अन्तिम दो पादों के प्रारम्भ में अक्षरों का कर्मकाण्डीय क्षेपक, निदा.सू. 2.12; द्रष्टव्य- कैलण्ड पञ्च.ब्रा. 3०6-3०7 पर।

"https://sa.wiktionary.org/w/index.php?title=उपसर्ग&oldid=493242" इत्यस्माद् प्रतिप्राप्तम्