सामग्री पर जाएँ

उपसर्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपसर्गः, पुं, (उप + सृज् + घञ् ।) रोगभेदः । (यथा, सुश्रुते । “क्षीणं हन्युश्चोपसर्गाः प्रभूताः” ।) उप- प्लवः । इति मेदिनी ॥ (यथा, मार्कण्डेये ९२ । ७ । “उपसर्गानशेषांस्तु महामारीसमुद्भवान्” ।) धातोः पूर्ब्बवर्त्तिविंशतिसंख्यकप्राद्यव्ययम् । यथा । प्र । परा । अप । सम् । नि । अव । अनु । निर् । दुर् । वि । अधि । सु । उत् । परि । प्रति । अभि । अति । अपि । उप । आङ् । अस्य प्रमाणम् । “निपाताश्चादयो ज्ञेयाः उपसर्गास्तु प्रादयः । द्योतकत्वात् क्रियायोगे लोकादवगता इमे” ॥ स त्रिधा । “धात्वर्थं बाधते कश्चित्” । यथा आदत्ते । “कश्चित्तमनुवर्त्तते” । यथा प्रसूते । “तमेव विशिनष्ट्यन्यः” । यथा प्रणमति । “उप- सर्गगतिस्त्रिधा” । अपि च । “उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । नीहाराहारसंहारप्रतीहारप्रहारवत्” ॥ इति मुग्धबोधटीकायां दुर्गादासः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपसर्गः [upasargḥ], 1 Sickness, disease, change occasioned by a disease; also a disease superinduced on another; क्षीणं हन्युश्चोपसर्गाः प्रभूताः Suśr.

Misfortune, trouble, calamity, injury, harm; प्रशमिताशेषोपसर्गाः प्रजाः Ratn.1.1; सोपसर्गं वो नक्षत्रम् M.4. sorrow; आपेदे उपसर्गस्तं तमः सूर्यमिवासुरम् Rām.2.63.2.

Portent, natural phenomenon foreboding evil.

An eclipse.

An indication or symptom of death.

Addition.

Possession by an evil spirit.

A preposition prefixed to roots; निपाताश्चादयो ज्ञेयाः प्रादयस्तूपसर्गकाः । द्योतकत्वात् क्रियायोगे लोकादवगता इमे ॥ उपसर्गास्तु विज्ञेयाः क्रियायोगेन विंशतिः । विवेचयन्ति ते ह्यर्थं नामाख्यातविभक्तिषु ॥ बृहद्देवता; आख्यातमुपगृह्यार्थविशेषमिमे तस्यैव सृजन्तीत्युपसर्गाः । Durga under Nirukta 1.3. उपेत्य नामाख्यातयोरर्थस्य विशेषं सृजन्त्युत्पादयन्ती- त्युपसर्गाः । Skanda. The नाट्यशास्त्र defines उपसर्ग thus: प्रातिपदिकार्थयुक्तं धात्वर्थमुपसृजन्ति ये स्वार्थैः । उपसर्गा उपदिष्टास्तस्मात् संस्कारशास्त्रे$स्मिन् ॥ A poetaster has framed the following समस्यापूरण stanza with the rule उपसर्गाः क्रियायोगे (Pāṇini I.4.59); उपसर्गाः क्रियायोगे पाणिनेरपि संमयम् । निष्क्रियो$पि तवारातिः सोपसर्गः सदा कथम् ॥ Upasargas are 2 in number: प्र, परा, अप, सम्, अनु, अव, निस् or निर्, दुस् or दुर्, वि, आ (ङ्), नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप; or 22 if निस्-निर् and दुस्-दुर् be taken as separate words. There are two theories as to the character of these prepositions. According to one theory roots have various meanings in themselves (अनेकार्था हि धातवः); when prepositions are prefixed to them they simply bring to light those meanings already existent but hidden in them, but they do not express them, being meaningless themselves; cf. Śi.1.15: सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे । विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ According to the other theory prepositions express their own independent meanings; they modify, intensify, and sometimes entirely alter, the senses of roots; cf. Sk.: उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ cf. also धात्वर्थं बाधते कश्चित्कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्य उपसर्गगतिस्त्रिधा ॥ (The latter theory appears to be more correct. For a fuller exposition see Nirukta).

An obstacle; ते समाधावुपसर्गा व्युत्थाने सिद्धयः । योगसूत्रs 3.39.

"https://sa.wiktionary.org/w/index.php?title=उपसर्गः&oldid=241791" इत्यस्माद् प्रतिप्राप्तम्