उपांशु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपांशुः, पुं, (उपगता अंशवो यत्र ।) जपभेदः । इति मेदिनी ॥ “जिह्वौष्ठौ चालयेत् किञ्चिद्देवतागतमानसः । निजश्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः” ॥ इत्यागमः ॥ (निगूढे वाच्यलिङ्गः । यथा, महा- भारते । १ । ३ । १९ । “अस्य त्वेकमुपांशुव्रतं यदेनं कश्चित् ब्राह्मणः कञ्चिदर्थं अभियाचेत्तं तस्मै दद्यादयम्” ॥)
उपांशु, व्य, विजनम् । रहः । इत्यमरो मेदिनी च ॥ (यथा, रघुः ८ । १८ । “परिचेतुमुपांशु धारणां कुश- पूतं प्रवयास्तु विष्टरम्” ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपांशु अव्य।
विजनः
समानार्थक:विविक्त,विजन,छन्न,निःशलाक,रहस्,रहस्,उपांशु,विविक्ति,उपह्वर,वीकाश
2।8।23।1।2
रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु। समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात्.।
सम्बन्धि2 : रहस्यम्
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपांशु¦ अव्य॰ उप + अन्श--उ।
१ निर्जने
“परिचेतुमुपांशु धार-णाम्” रघुः।
“उपांशु विजने” मल्लि॰।
२ अप्रकाशेच।
“जिह्वोष्ठौ चालयेत् किञ्चित् देवतागतमानसः। निजश्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः इत्युक्तलक्षणे
३ मन्त्रादेर्जपभेदे पु॰। जपीहि त्रिविधः नरसिंह पु॰ उक्तः। [Page1343-a+ 38]
“त्रिविघो जपयज्ञःस्यात् तस्य भेदान् निबोधत। वाचि-कश्च उपांशुश्च मानसश्च त्रिधा मतः। त्रयाणां जप-यज्ञानां श्रेयान् स्यादुत्तरोत्तरः। यत्रोच्चनीचस्वरितैःस्पष्टशब्दवदक्षरैः। मन्त्रमुच्चारयेद्व्यक्तं जपःप्रोक्तः सवाचिकः। शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत्। किञ्चिच्छब्दस्वरं विद्यादुपांशुः स जपःस्मृतः। धिया-यदक्षरश्रेण्या वर्ण्णाद्वर्ण्णं पदात् पदम्। शब्दार्थमा-नसाभ्यासः स उक्तोमानसोजपः”। तेन स्वरादिसुव्यक्त-वर्ण्णोच्चारणवान् वाचिकः स्वयंग्रहणयोग्यः किञ्चिच्छब्द-{??}न उपांशुः। जिह्वोष्ठचालनमन्तरेण वर्ण्णार्थानुसन्धा-नवान् मानसः” आ॰ त॰। हारीतः
“यदुच्चनीचस्वरितैःशब्दैःस्पष्टं पदाक्षरैः। मन्त्रमुच्चारयेत् वाचा जपयज्ञस्तुवाचिकः। शनैरुच्चारयेन्मन्त्रं किञ्चिदौष्ठौ प्रचालयेत्। किञ्चिच्छ्रवणयोग्य स्यात् सौपांशुर्जपः स्मृतः। धियापदाक्षरश्रेण्या अवर्ण्णमपदाक्षरम्। शब्दार्थचिन्तनाभ्यस्तंतदुक्तं मानसंस्मृतम्”
“तेषामुत्तरोत्तरफलतारतम्य-माह” मनुः
“विधियज्ञाजज्पयज्ञोविशिष्टोदशभिर्गुणैः। उपांशुःस्याच्छतगुणः साहस्रोमानसः स्मृतः”
“उपांशु-देवतां यजत्यनिरुक्तं वा उपांशु इति शत॰ व्रा॰
३ ,
३ ,
५ ,
२ , उक्ते
४ अनिरुक्तमात्रे
५ मौने।
“उपांशु वै रेतःसिच्यते” शत॰
६ ,
२ ,
२ ,
२ , मैथुनकाले मौनविधानात् तस्यो-पांशुत्वम्।
६ निगूढे च
“अस्य त्वेकमुपांशु ब्रतम्” भा॰आ॰
३ अ॰। परग्रहणायोग्यतया निगूढमित्यर्थः नील॰ क॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपांशु¦ m. (-शुः) Muttering prayers, reciting them in a low voice so as not to be overheard. ind.
1. Solitary, private.
2. Secretely, in a whisper. E. उप, अंशु a ray.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपांशु [upāṃśu], ind.
In low voice or whisper; ववर्ष पर्जन्य उपांशुगर्जितः Bhāg.1.3.5.
Secretly, in secret or private; परिचेतुमुपांशु धारणाम् R.8.18; cf. also तस्मात् यत् किंचित् प्राजापत्यं क्रियते उपांश्वेव तत् क्रियते इति । ŚB. on MS. 1.8.57. ˚व्रतम् a vow observed in secret; भिन्द्यामहं तस्य शिर इत्युपांशुव्रतं मम Mb.8.69.1.
शुः A prayer uttered in a low voice, muttering of prayers; जिह्वोष्ठौ चालयेत् किंचिद् देवतागतमानसः । निजश्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः ॥; विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ Ms.2.85.
(Hence) silence itself.
N. of a Soma offering. -त्वम् Silence. उपांशुत्वं प्रजापते- धर्मः । ŚB. on MS.1.8.52. -Comp. -क्रीडित a. made the companion of; (a king's) private amusements.-ग्रहः The first ladle full of soma pressed at the sacrifice. -दण्डः A punishment inflicted in secret; विद्विष्टानु- पांशुदण्डेन जनपदकोपेन वा साधयेत् Kau. A.1.13. -याजः a kind of sacrifice. -वधः A clandestine murder; ˚वधमाकलय्य Mu.2; Śi.13.54.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपांशु ind. (fr. अंश्, " to divide " , with उपand affix उT. (?) g. स्वर्-आदिPa1n2. 1-1 , 37 ), secretly , in secret RV. x , 83 , 7 MBh. Ragh. etc.
उपांशु ind. in a low voice , in a whisper S3Br. AitBr.
उपांशु m. a prayer uttered in a low voice (so as not to be overheard) Mn. ii , 85 Ma1rkP. etc.
उपांशु m. a particular सोमoblation= उपांशु-ग्रहbelow VS. TS. S3Br. Ka1tyS3r. etc.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपांशु क्रि.वि.
यजुष् का धीमे स्वर में उच्चारण, आप.श्रौ.सू. 24.1.9; जप का भी, ‘अनुमन्त्रण’, आप्यायन एवं उपस्थान मन्त्र, आश्व.श्रौ.सू. 1.1.2०; इसकी व्याख्या इस प्रकार की गयी है ः मन्त्र को बुदबुदाना जिसमें शब्दों को बुदबुदाने के लिए एक दृश्य प्रयास किया जाता है, किन्तु कोई ध्वनि सुनाई नहीं पड़ती एवं बिना विचार शब्दों की आवृत्ति की जाती है, आश्व.श्रौ.सू. 1.1.9 (भाष्य); तु. ओल्डेनवर वर्ग, श.ब्रा.इ. XXX.318; आप.श्रौ.सू. 3.8.8 भा. उपांशु की व्याख्या इस प्रकार की गयी है टहनियों (अंशु) के समीप (उप) निमन् ध्वनि में उच्चारण है, ‘उपांशु काम्यदेवता’, का.श्रौ.सू. 4.5.1 (काम्यदेवता के लिए, आग्रयण में विश्वेदेवों के लिए, वरुण प्रजापति को एककपाल नहीं अर्पित किया जाता, चातुर्मास्य में सावित्र, वैश्वदेवी आमिक्षा, वायव्य, तनूहवींषि, दीक्षणीय प्रायणीय, आतिथ्यदैवत, देवसूहवींषि, चयन में वायव्य पशु, मैत्रावरुण आमिक्षा, सौत्रामणी में ऐन्द्र पशु)। यह यदा-कदा होता है, जैसे सोम-चमस, देवता एवं आहुति; द्रष्टव्य L. PAIOC बाम्बे 1951।
