उपांशुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपांशुः, पुं, (उपगता अंशवो यत्र ।) जपभेदः । इति मेदिनी ॥ “जिह्वौष्ठौ चालयेत् किञ्चिद्देवतागतमानसः । निजश्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः” ॥ इत्यागमः ॥ (निगूढे वाच्यलिङ्गः । यथा, महा- भारते । १ । ३ । १९ । “अस्य त्वेकमुपांशुव्रतं यदेनं कश्चित् ब्राह्मणः कञ्चिदर्थं अभियाचेत्तं तस्मै दद्यादयम्” ॥)
