उपाकर्म्मन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपाकर्म्मन्¦ न॰ उप + आ + कृ--करणे मनिन्। येन कर्मविशे-षेण वर्षान्ते पुनर्वेदः पठितुमारभ्यते तादृशे, कर्मभेदे तच्च
“अथातोऽध्यायोपाकरणम्” इत्युपक्रम्य आश्व॰ सू॰ दर्शितम्तत्कालकर्त्तव्यतादि च तत्रैवोक्तः विशेषस्तु नि॰ सि॰ उक्तोयथा
“तत्र बह्वृचानां प्रयोगपारिजाते शौनकः।
“अथातःश्रावणे मासे श्रवणर्क्षयुते दिने। श्रावण्यां श्रावण मासिपञ्चम्यां हस्तसंयुते। दिवसे विदधीतैतदुपाकर्म यथो-दितम्। स्वध्यायोपाकृतिं कुर्य्यात्तत्रोपासनवह्निना” अत्र पौर्णमासी उपसंहारन्यायेन यजुर्वेदपरेति हेमाद्रिः। अत्र हस्तयुक्ता पञ्चम्युक्ता कारिकयाऽपि
“तन्मासे हस्त-युक्तायां पञ्चम्यां वा तदिष्यते” इति। केवलपञ्चम्यांहस्तयुतेऽन्यस्मिन् वा दिन इति तु हेमाद्रिः। उपासन-वह्निनेति तु
“कर्मद्वयमिदं केचिल्लौकिकाग्नौ प्रकुर्वते” इति कारिकोक्तलौकिकाग्निना विकल्प्यते। तत्र
“अध्याप्यैरन्वारब्धः” इति सूत्रात् सशिष्यत्वेन तदधिकारित्वात्नाचार्य्याग्नौ
“नान्यस्याग्नावन्योजुयादिति” निषेधाल्लौकिकएव। तदभावे स्मार्त्त इति निगर्वः। यद्यपि दीपिकायाम्।
“वेदोपाकृतिरोषधिप्रजनने पक्षे सिते श्रावणे” इति शुक्ल-पक्षोऽपि सर्वेषां मुख्यकालत्वेनोक्तः। वक्ष्यमाणगार्ग्य-वचनेन छन्दोगान् प्रति विहितस्य तस्याविसोधितासर्वान् प्रति निवृत्तिश्च। तथापि श्रावणमाससंबन्धस्य सत्रो-क्तत्वात कृष्णपक्षेऽपि कार्य्यमिति वृद्धाः। तथा च आश्व॰[Page1344-a+ 38] सूत्राणि
“अथातोऽध्यायोपाकरणम्”
“ओषधीनां प्रादु-र्भावे”
“श्रवणेन श्रावणस्य पञ्चम्यां हस्तेन वा”। अत्र श्रवणोमुख्योऽन्यो गौणः। तस्याहर्द्वययोगेहेमाद्रौ व्यासः।
“धनिष्ठासंयुतं कर्य्याच्छ्रावणं कर्म यद्भ-येत्। तत्कर्भ सकलं ज्ञेयमुपाकरणसंज्ञितम्। श्रवणेनतु यत् कर्म्म ह्युत्तराषाढसंयुतम्। संवत्सरकृतोध्याय-स्तत्क्षणादेव नश्यतीति”। प्रयोगपारिजाते गार्ग्योऽपि।
“उदयव्यापिनी त्वेव विष्ण्वर्क्षे घटिकाद्वयम्। तत्कर्मसकलं ज्ञेयं तस्य पुण्यमनन्तकमिति” पूर्वेद्युरुत्तारा-षाढायोगे, परेद्युः श्रवणाभावे घटिकाद्वयन्यूने वापञ्चम्यादौ कार्यम्। न तु पूर्वविद्धायां सङ्गवेऽपि,अपवादाभावात्। किञ्च परेद्युः सङ्गवास्पर्शे निषिद्धपूर्वग्रहणे किं मानम्। सङ्गववाक्यं श्रवणवाक्यं वेतिचेत् तर्हि व्रीहिवाक्यादश्वशफवाक्याच्च माषमिश्राणाम-प्युपादानं स्यादिति महत्पाण्डत्यम्। एतेन पर्वाप्यौदयिकं व्याख्यातम् निषेधप्रवेशस्योभयत्र साम्यात्। श्रवणयुतदिने संक्रान्त्यादौ तु
“उपाकर्म न कुर्वन्तिक्रमात्सामर्ग्यजुर्बिदः। ग्रहसंक्रान्तियुक्तेषु हस्तश्रवण-पर्वसु” इति हेमाद्रौ निषेधात् पञ्चम्यादयो ग्राह्याः। अत्र ग्रहसंक्रान्तिदिने येषां प्राप्तन्तैः सर्वैरुपाकर्म न कार्यम्इत्येको वाक्यार्थः। तेनाथर्वषेदिनामपि निषेधः। अ-न्यथा हस्तादित्रये प्रत्येकं ग्रहसंक्रान्त्योः षड्वाक्यक-ल्पनापत्तेः। मदनरत्नेऽपि
“यदि स्यात् श्रावणं पर्व ग्र-हसंक्रान्तिदूषितम्। स्यादुपाकरणं शुक्लपञ्चम्यां श्रा-बणस्य तु” स्मृतिः, स्मृतिमहार्णवे
“संक्रातिर्ग्रहणं वापियदि पर्वणि जायते। तन्मासे हस्तयुक्तायां पञ्चम्यां वातदिष्यते”। तत्रापि प्रयोगपारिजाते वृद्धमनुकात्या-यनौ।
“अर्द्धरात्रादधस्ताच्चेत् संक्रान्तिर्ग्रहणं यदा। उपाकर्म न कुर्वीत परतश्चेन्न दोषकृदिति”। मदनरत्नेगार्ग्योऽपि।
“यद्यर्द्धरात्रादर्वाक् तु ग्रहः संक्रमएव वा। नोपाकर्म तदा कुर्य्याच्छ्रावण्यां श्रवणेऽपि वा”। एतेन ग्र-हणकाले श्रवणसत्त्वे एव निषेधोनार्वागिति मूर्खशङ्का-परास्ता, ग्रहविशिष्टानां हस्तश्रवणपर्वणां प्रत्येकं नि-षेधे तद्युक्तोपाकर्मनिषेधे च विशिष्टोद्देशे वाक्यभेदात्पञ्चम्यां संक्रान्तौ निधाभावापत्तेश्च। तेनार्द्धरात्रात्पूर्वं ग्रहसत्त्वमात्रे उपाकर्मनिषेधो न तद्योगे। यत्तु
“प्रतिपन्मिश्रिते नैव नोत्तराषाढसंयुते। श्रवणे श्रावणंकुर्युर्ग्रहसंक्रान्तिवर्जिते” इति प्रतिपन्मिश्रितनिषेधकं[Page1344-b+ 38] वचनं तन्निर्सूलम्। हेमाद्रौ निगमः।
“ग्रहयोगोगुरुं हन्ति संक्रान्तिः शिष्यघातिनी। तपोहन्त्युत्तराषाढाउपाकर्मणि वैष्णवे” अत्र च
“वेदोपाकरणे प्राप्ते कुलीरेसंस्थिते रवौ। उपाकर्म न कर्त्तव्यं कर्त्तव्यं सिंहयुक्तके” इति वचनं देशान्तरविषयम्।
“नर्मदोत्तरभागे तु कर्त्तव्यंसिंहयुक्तके। कर्कटे सस्थिते भानावुपाकुर्य्यात्तु दक्षिणा” वृह॰ वचनात् इति प्रयो॰ पा॰ उक्तम्। पराशरमाध-वीयेऽप्येवम्। सामगानां सिंहस्थरवावुक्तेस्तद्विषयमेवेदं,पुरोडाशचतुर्द्धाकरणवदुपसंह्रियत इति। न तु वह्वृ-चादिपरम्। तेषां सूत्रे चान्द्रश्रावणोक्तेः सौरेपञ्चम्ययोगात् सामान्येन सौत्रविशेषस्य बाधायोगादितितु वयं पश्यामः। यत्तु कालादर्शे
“अध्यायानामुपा-कर्म श्रावण्यान्तैत्तिरीयकाः। बह्वृचाः श्रवणे कुर्युःसिंहस्थोऽर्कोभवेद्यदि। सहस्तशुक्लपञ्चम्यां तद्वद्ग्रहण-संक्रमे। असिंहार्कपौष्ठपद्यां श्रवणेन व्यवस्थयेति” तन्मूला-लिखनात् सूत्रविरोघाच्च चिन्त्यम्। सूत्रे हि श्रव-णेन श्रावणस्येति चान्द्रमास एवोक्तो न सौरः तस्यपञ्चम्यभावात् श्रुतिलक्षणाभ्यामुभयपरत्वे वृत्तिद्वय-विरोधाच्च। तेन सिंहस्थोऽर्कोभवेद्यदि तदा कर्केऽपिग्रहणसंक्रमे सति असिंहार्के शुक्लपञ्चम्यां श्रवणे वाबह्वृचाः, प्रौष्ठपद्यान्तैत्तिरीया इति व्याख्येयम् तेषांसौरमासाभावात्। श्रावणे शस्यानुद्गमादौ बह्वृचपरि-शिष्टे
“अवृष्ट्योषधयस्तस्मिन् मासे तु न भवन्ति चेत्। तदा भाद्रपदे मासि श्रवणेन तदिष्यत इति”।
“तत्रा-प्यनुद्गमे तु
“कुर्यादेव तद्वार्षिकमित्याचक्षते” इति सूत्रात्। वर्षत्तौ भवं वार्षिकम्। एतच्च शुक्रास्तादाचपि कार्यम्।
“उपाकर्मोत्सर्जनं च पवित्रदमनार्पणमिति” दमनारोपणेलिखितवचनात्
“नित्ये नैमित्तिके जप्ये होमयज्ञ-क्रियासु च। उपाकर्मणि चोत्सर्गे ग्रहबेधो नविद्यते” इति प्रयोगपारिजाते हेमाद्रौ च संग्रहोक्तेः। पर्वणि ग्रहणे सति पूर्वं त्रिरात्रादिवेधाभावं वक्तुमि-दम्। तेन पर्वणि ग्रहणेऽपि चतुर्द्दश्यां श्रवणे कार्य-मिति हेमाद्रिः। प्रथमारम्भस्तु न भवति
“गुरुभार्ग-वयोर्मौढ्ये बाल्ये वा वार्द्धकेऽपि वा। तथाधिमाससंसर्गेमलमासादिषु द्विज! प्रथमोपाकृतिर्न स्यात्कृता कर्म-विनाशकृदिति” तत्रैव कश्योपोक्तेः। अत्र प्रथमारम्भेवृद्धिश्राद्धं कुर्यादिति। नारायणवृत्तौ एतच्चाधिमासे न का-र्यम्
“उपाकर्म्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः। मास-[Page1345-a+ 38] वृद्धौ पराःकार्य्या वर्जयित्वा तु पैतृकमिति” ज्योतिःपरा-शरेक्तेः
“उत्कर्षः कालवृद्धौ स्यादुपाकर्म्मादिकर्म्मणि। अभिषेकादिवृद्धीनां न तूत्कर्षो युगादिष्विति” कात्यायनोक्लेश्च। यत्तु
“उपाकर्म्मणि चोत्सर्गे ह्येतदिष्टं वृषादित” इति ऋष्यशृङ्गवचस्तत्सामगविषयम् तेषां सिंहार्के एवो-क्तेः। एतच्चापराह्णे कार्य्यम्।
“उपाकर्मापराह्णेस्यादुत्सर्गःप्रातरेव त्विति”
“अध्यायानामुपाकर्म्मकूर्य्यात्क लेऽपरीह्ण-के। पूर्ब्बाह्णे तु विसर्गः स्यादिति वेदविदो विदुरिति” हेमाद्रौ गोभिलोक्तेः। वस्तुतस्तु
“भवेदुपाकृतिः पौर्णमा-स्यां पूर्व्वाह्ण एव त्विति” प्रचेतोवचनात् पूर्ब्बवाक्यं सामगविषयम्। तेषामपराह्ले एवोक्तेरित्यनुपदं वक्ष्यते। दोपिकापि।
“अस्य तु विधिः पूर्ब्बाह्णकालः स्मृत” इति। याजुषास्तु पर्वणि कुर्युः। तच्चापस्तम्बैरौदयिकं ग्रा-ह्यम्। अन्यैस्तु पूर्वम्।
“पर्वण्यौदयिके कर्यु श्रावणन्तै-त्तिरीयकाः। बह्वृचाः श्रवणे कर्युर्ग्रहसंक्रान्तिवर्जिते” इति गर्गोक्तेः
“संप्राप्तवान् स्तुतीर्ब्रह्मा पर्वण्यौदयिकेपुनः। अतो भूतदिने तस्मिन्नोपाकरणमिष्यते” इतिकालिकापुराणात्।
“अथ चेद्दोषसंयुक्ते पर्वणि स्यादु-पाक्रिया। दुःखशोकामयग्रस्ताराष्ट्रे तस्मिन् द्विजातयः” इति मदनरत्ने गर्गोक्तेः। अत्र सिङ्गाभट्टीये विशेषः।
“श्रवणः श्रावणं पर्व सङ्गवस्पृग्यदा भवेत्। तदैवौदयिकंकार्यं नान्यदौदयिकं भवेत्”। पराशरमाधवीयेऽपि गार्ग्यः
“श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि। तदैवौदयि-की ग्राह्या नान्यदौदयिकी भवेत्”। कर्मकालमाह काला-दर्शे निगमः।
“श्रावण्यां प्रौष्ठपद्यां वा प्रतिपत् षण्मु-हूर्त्तकैः। विद्धा स्याच्छन्दसां तत्रोपाकर्मोत्सर्जनं भवेत्”। अत्र पौर्णमासी श्रवणहस्तयोरुपलक्षणं तेन तावपि सङ्ग-वस्पृशौ ग्राह्यौ।
“उदये षड्घटीस्पर्शेश्रिते पर्वणि वार्कभे। कुर्युर्नभस्युपाकर्म ऋग्यजुःसामगाः क्रमात्” इति पृथ्वी-चन्द्रः।
“विष्ण्वृक्षे घटिकाद्वयमिति” पूर्वोक्तविरोधात् सा-मान्यवाक्यादौदयिकी कर्म्मपर्याप्ता ग्राह्या न पूर्वा। स-ङ्गवानमित्तपूर्वविद्धापवादाभावात् भाद्रादौ कालान्तरेवास्तु न तु निषिद्धम्। न हि व्रीह्यलाभे निषिद्धमा-षग्रहणं युक्तम्। अतएव परेद्युः सङ्गवव्याप्तौ पूर्व-निपेषः। तदभावे तु नेति मूर्खव्यवस्थाप्यपास्ता विधि-वैषम्यात् माषनिषेधे तथापत्तेश्च। पूर्बविद्धावचन-सत्त्वो हि सा युज्यते। एवं श्रवणेऽपि ज्ञेयम्। एतच्छु-द्धाधिक्यपरं तेन यथाग्निहोत्रादौ सायं प्रातः काल-[Page1345-b+ 38] याधे सामान्यस्य जीवनावच्छिन्नकाल रनुष्ठानगु। यथा व्रीह्यश्वशफाद्यभावे यागाक्षिप्तजंरषिद्धाकारदिव्येणतथात्र सङ्गवाभावेऽनिषिद्धावर्ज्यकर्म्मपर्याप्तौदयिके कालान्तरे वानुष्ठानं न तु कदापि निषिद्धे अपवादाभावेउत्सर्गस्यैव प्राप्तेः। कात्यायनादीनान्तु दिनद्वये पूर्वाह्ण-व्याप्तौ एकदेशस्पर्शे वा पूर्वैवेति हेमाद्रिः। घटिका-द्वयमिति पूर्वोक्तविरोधात् तेन प्राशस्त्यमात्रपरमि-दम्। यदपि
“श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी। पूर्वविद्धा प्रकर्त्तव्या शिवरात्रिर्बलेर्दिनमिति” ब्रह्मवैवर्त्तम्तद्ब्रह्मपवित्रविषयमिति हेमाद्रिः। मदनपारिजाते-ऽपि पूर्वविद्धायां श्रावण्यां वाजसनेयिनामुपाकर्मे-त्युक्तमू मदनरत्नेऽपि
“पर्वण्यौदयिके कुर्युः श्राव-णन्तैत्तिरीयकाः” इति वह्वृचपरिशिष्टाद्बह्वृचान् प्रतिकर्म्मविधानार्थं प्रवृत्ते तत्र तैतिरीयककर्म्मविध्ययोगात्पूर्वोक्तकालिकापुराणादौ सामान्यत औदयिकपर्वप्राप्ते-स्तन्निषेधे न बह्वृचानां श्रवणविधानात्तैत्तिरीयकपदम्अनुवादत्वात्तस्य च प्राप्त्यधीनत्वात् प्राप्तेश्च यजुर्वेदमा-त्रपरत्वात् सर्वयजुर्वेद्युपलक्षणार्थम्। अवयुत्यनुवादोवा। न तु विधायकम्। तेन विशेषविधिना उपसं-हारः स्यात्। अनुवादत्वाल्लक्षणा न दोषः। अन्यथौदयिकपर्वविशिष्टोपाकर्मोद्देशेन कर्त्तृविधौ कर्तृविशिष्टेवौदयिकपर्वविधौ वाक्यभेदापत्तेः। तस्मात्तेत्तिरीयकपदाविवक्षया सर्वयजुर्वेदिनामौदयिकमेव पर्व्वेत्युक्तम्। तन्न न तावत्परिशिष्टे बह्वृचःन् प्रत्येव विधिः। धनिष्ठाप्रतिपद्युक्तत्वात्
“त्वाष्ट्रऋक्षसमन्वितमित्यादि तदुदाहृतेएव परिशिष्टे वेदान्तरधर्म्मविधीनां दर्शनात्। नाप्यनुवादोऽयम् कालिकापुराणाद्बह्वृचादीनामपि तदापत्तेः कु-र्युरित्यस्य विधित्वेन तस्यैवार्थवादत्वेनैतत्प्राप्तानुवादि-त्वाच्च। न च तैत्तिरीयकाणां गृह्ये तद्विधिरस्ति येना-नुवादः स्यात्। न च वाक्यभेदः। तैत्तिरीयकपद-मात्रस्य कर्म्ममात्रस्य वा उद्देश्यत्वायोगेन हविरार्त्तिव-दष्टवर्षं ब्राह्मणमुपनयीतेतिवच्चागत्या विशिष्टोद्देश्यत्वात्। अन्यथोत्तरार्द्धे बह्वृचपदस्याऽप्यविवक्षापत्त्या श्रावणस्य सर्व-साघारण्यापत्तेः। तस्मात् हेमाद्रिमतमेव युक्तमिति दिक्। इदं च। शिष्यानध्यापथत आवसथ्येऽग्नौ अनध्यापयतो-नाधिकार इति कर्कः। श्रावण्यामपि ग्रहणादिदुष्टायांकातीयभिन्नैः प्रौष्ठपद्यां कार्यं तैस्तु श्रावणपञ्चम्याम्।
“संक्रान्तिर्ग्रहणं वापि पौर्णमास्यां यदा भवेत्। उपा-[Page1346-a+ 38] कृतिस्तु पञ्चम्यां कार्यावाजसनेयिभिरिति” स्मृतिमहार्णवेवाजसनेयिग्रहणादिति हेमाद्रिः। इदं स्वसूत्रोक्तकालपरत्वात् बह्वृचपरमपि। शाट्यायनैस्तु हस्ते कार्यम्। आपस्तम्बैराथर्वणैश्च प्रौष्ठपद्याम्। यत्तु बौधा-यनः
“श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्येत्यूचे। तत् प्रौष्ठपद्यामपि दोषे आषाढ्यां कार्यमित्ये वमर्थम्। तच्छाखीयविषयं वा। सामगास्तु श्रावणे हस्ते कर्युः।
“वह्वृचाः श्रावणे चैव हस्तर्क्षे सामवेदिन” इति निर्णया-मृते गोभिलोक्तेः। सोऽप्युत्तरः
“धनिष्ठाप्रतिपद्युक्तं त्वा-ष्ट्रऋक्षसमन्वितम्। श्रावणं कर्म्म कुर्वीरनृग्यजुःसाम-पाठकाः” इति मदनरत्ने परिशिष्टोक्तेः। गर्गोऽपि
“सि हे रवौ तु पुष्यर्क्षे पूर्वाह्णेऽविवरे बहिः। छन्देगा-मिलिताः कुर्युरुत्सर्गं स्वस्वच्छन्दसाम्। शुक्लपक्षे तु हस्ते-न उपाकर्म्मापराह्णिकमिति”। पुष्यर्क्षेपूर्वाह्णे उत्सगःआपराह्णिकमुपाकर्म्मत्यन्वयः। अविवरे ग्रहादिदोषर-हिते। अन्योविशेषः पूर्ब्बमुक्तः। प्रयोगपारिजाते गोभिलः
“उपाकर्म्मोत्सर्जनं च वनस्थानामपीष्यते। धारणाध्ययनाङ्ग-त्वाद्गृहिणां ब्रह्मचारिणाम्। उत्सर्जनं च वेदानामुपाकरणकर्म्म च। अकृत्वा वेदजप्येन फलं नाप्नोतिमानवः”। सर्वथा लोपे तु कृच्छ्र उपवासश्च
“वेदोदितानांनित्यानामिति” मनुनाऽभोजनोक्तेः। एवमुत्सर्गेऽपि। ( अथ प्रसङ्गादत्रैवीत्सर्ज्जनमुच्यते। तच्च पौषमासेरोहिण्यां तत्कृष्णाष्टम्यां वा कार्य्यम्।
“पौषमासस्य रो-हिण्यामष्टकायामथापि वा। जलान्ते छन्दसां कुर्यादुत्स-र्गं विधिवद्बहिरिति” याज्ञ॰ उक्तेः। श्रावाण्यां प्रौष्ठ-पद्यां चोपाकृतौ क्रमेण पौषशुक्लप्रतिपदि, माघशुक्लप्रति-पदि च कार्य्यम्
“अद्धपञ्चमासानधीयीतेति” तेनैवोक्तेः। यत्तु हारीतः
“अर्धपञ्चमान्मासानधीत्योर्ध्वमुत्सृजेत्पञ्चार्धषष्ठान्वेति”। तदाषाष्ट्युपाकर्म्मविषयम्। बौधायनास्तु पौष्यां माध्यां वा कुर्य्युः।
“पौष्यां माघ्यां वोत्-सृजेदिति” तत्सूत्रात्। तैत्तिरायैस्तु तैष्यां कार्य्यं
“तैष्यांपौर्णमास्यां रोहिण्यां वा विरमेदिति” तत्सूत्रात्। बह्वृचैस्तु माघ्यां कार्य्यम्
“अध्यायोत्सर्ज्जनं माघ्यांपौर्णमास्यां विधीयते” इति कारिकोक्तेः। कातीयास्तुभ्राद्रपदे कुर्य्युः।
“उत्सर्गश्चेत्तदा तिष्यतिथ्यां प्रौष्ठपदेऽपि-वेति” कात्यायनोक्तेः। सामगास्तु सिंहार्के पुष्ये कुर्य्युः। तथा च सिंहे रवौ चेति गार्ग्यवचनं पूर्ब्बमुक्तम्। स-र्वैरुपाकर्म्मदिने वा कार्य्यम।
“पुष्ये तूत्सर्ज्जनं कुर्य्यादुपा[Page1346-b+ 38] कर्मदिनेऽथवेति” हेमाद्रौ खादिर गृह्योक्तेः। यदा सिंह-स्थे सूर्य्ये सति तन्मध्यस्थहस्तनक्षत्रात्प्राक् पुष्यः कर्कस्थोभवति तदा तस्मिन् पुष्ये उत्सर्गं कृत्वा तदुत्तरहस्ते उपा-कर्भ सामगाः कुर्य्युः।
“मासे प्रोष्ठपदे हस्तात्पुष्यः पू-र्वोभवेद्यदि। तदा तु श्रावणं कुर्य्यादुत्सर्गं छन्दसांद्विजः” इति तत्रैव परिशिष्टोक्तेः। अत्र द्वावपि सौरौ-मासौ ज्ञेयौ तेषां सौरस्यैवोक्तेः। अत्र विशेषमाहकार्ष्णाजिनिः।
“उपाकर्मणि चोत्सर्गे यथाकालं समे-त्य च। ऋषीन्दर्भमयान् कृत्वा पूजयेत्तर्पयेत्ततः। संप्राप्ते श्रावणस्यान्त पौर्ण्णमास्यां दिनोदवे। स्नानंकुर्व्वीत मतिमान् श्रुतिस्मृतिविधानतः। उपाकर्म्मादिकंप्रोक्तमृषीणाञ्चैव तर्पणम्। शूद्राणां मन्त्ररहितं स्नानंदानं प्रशस्यते”।
“उपाकर्म्मण्युत्सर्गे च त्रिरात्रं पक्षिणी-महोनात्रं वानध्याय” इति मिताक्षरायामुक्तम्। अत्रनदीनां रजोदोषोनास्ति।
“उपाकर्म्मणि चोत्सर्गे रजोदोषो न विद्यते इति” गर्गोक्तेः।
“उपाकर्म्मणि चोत्सर्गेप्रेतस्नाने तथैव च। चन्द्रसूर्य्यग्रहे चैव रजोदोषो नविद्यते” छन्दो॰ उक्तेश्च उपाकर्म्मणि चोत्सर्गे युगादौ मृत-वासरे। निषेद्धेऽपि दिने कुर्य्यात्तर्पणं तिलमिश्रितम्” स्मृतिः।
“त्रयोदश्यादितो वर्ज्यं दिनानां नवकं ध्रुवम्। मङ्गल्येषसमस्तेषु ग्रहणे चन्द्रसूर्य्ययोरिति” सामान्यतो ग्रहणेदिननवकनिषेधस्तु अनियतकालीनकर्म्मपरः न तु नियत-कालीनकर्म्मपरः।
“नित्ये नैमित्तिके जप्ये होमे यज्ञ-क्रियासु च। उपाकर्म्मणि चोत्सर्गे ग्रहदीषो न विद्यतेइति नि॰ सि॰ स्मृत्युक्तेर्नोपाकर्म्मणि ग्रहणवेधदोषः। आषाढ्यामपि उपाकर्म्मविधानात् आषाढीप्रयोजनकत्वात्दण्डस्याषाढनामता वेदग्रहणस्य दण्डपूर्ब्बकत्वात्तथात्वमिति बोध्यम्। करणे क्तिन् उपाकृतिरप्यत्रस्त्री कर्म्मकरणयोरभेदोपचारात् उपाक्रियाप्यत्र स्त्री।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपाकर्म्मन्¦ n. (-र्म्म)
1. Preparation.
2. A ceremony performed before read- ing the Vedas.
3. Beginning to read the Vedas. E. See the preced- ing, the aff. being मनिन्। [Page131-b+ 60]
