उपानत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपानत्, [ह्] स्त्री, (उपनह्येते पादावनया । उप + नह + क्विप् । “नहिवृतिवृषीति” । ७३ । ११६ । पूर्ब्बपदस्य दीर्घः ।) चर्म्मादिनिर्म्मितपादकोषः । जुता इति भाषा । तत्पर्य्यायः । पादुका २ पादूः ३ । इत्यमरः ॥ पादव्यतिरेकेणात्मोपानद्वहन- निषेधो यथा, -- “नाक्षैः क्रीडेत् कदाचित्तु स्वयं नोपानहौ वहेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने” ॥ इति मानवे ४ । ७४ । “ग्लहं विना कदाचिदपि परिहासेनापि नाक्षादिभिः क्रीडेत् । स्वयमि- त्यभिधानात् आत्मोपानहौ पादव्यतिरिक्तेन हस्तादिना देशान्तरं न नयेत् । शय्यावस्थितश्च न भुञ्जीत हस्ते च प्रभूतमन्नं कृत्वा क्रमेण न खादेत् । आसने भोजनपात्रं निधाय न भुञ्जीत । इति तट्टीकायां कुल्लूकभट्टः ॥ (यथा नैषघे । १ । १२३ । “कृतावहोरस्य हयादुपानहौ” । “अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् । पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम्” ॥ इति सुश्रुते चिकित्सितस्थाने २४ अध्यायः ॥)
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपानत् स्त्री.
(उप + आ + नह् + क्विप्) जूते का जोड़ा (विद्यार्थी द्वारा प्रयुक्त), आप.श्रौ.सू. 12.11; आश्व.गृ.सू. 3.8.1।
