सामग्री पर जाएँ

उपायः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपायः, पुं, (उपाय्यतेऽनेन । उप + अय + घञ् ।) राजादीनां शत्रुवशीकरणहेतुचतुष्टयम् । यथा । साम १ दानम् २ भेदः ३ दण्डः । इत्यमरः ॥ उप- गतिः । इति मेदिनी ॥ स्वार्थसम्पादकः । साध- नम् । यथा, -- “उपायतः समारम्भाः सर्व्वे सिद्ध्यन्त्युपक्रमाः । उपायं पश्य येन त्वं धारयेथाः प्रजा नृप” ॥ इति वह्निपुराणे पृथूपाख्याननामाध्यायः ॥ (“उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः” । इति हितोपदेशे । तथा, माघः २ । ५४ । “चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया” । “सर्व्वोपायैस्तथा कुर्य्यात् नीतिज्ञः पृथिवीपतिः” । इति मनुः ७ । १७७ । चेष्टा । यन्त्नः । “यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः” । इति मनुः ८ । ४८ । “अध्ययनमध्यापनं तद्विद्यासम्भाषेत्युपायाः” । “उपायः पुनः कारणादीनां सौष्ठवमभिधानं च सम्यक् कार्य्याकार्य्यफलानुबन्धवर्ज्ज्यानां कार्य्या- णामभिनिर्वर्त्तकः इत्यतोऽभ्युपायः कृतेनोपायार्थो- ऽस्ति न च विद्यते तदात्वे कृताच्चोत्तरकालं फलं फलञ्चानुबन्ध इति जातं दशविधम्” । इति चरके विमानस्थाने ८ अध्यायः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपायः [upāyḥ] उपायन [upāyana], उपायन See under उपे.

उपायः [upāyḥ], 1 (a) Means, an expedient, remedy; शक्यो- वाप्तुमुपायतः Bg.6.36. उपायं चिन्तयेत्प्राज्ञस्तथापायं च चिन्तयेत् Pt.1.46; मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे Amaru.25; Bhāg.1.48.2; Ms.8.48,7.177. (b) A plan, contrivance; ˚निलया Mu.1.5. (c) A mode, way, stratagem. उपायेन तु यच्छक्यं न तच्छक्यं पराक्रमैः । H.

A fact, circumstance; U.7.

Beginning, commencement.

Effort, exertion; वश्यात्मना तु यतता शक्यो$वाप्तुमुपायतः (योगः) Bg.6.36; Ms.9.248;1.2.

A means of success against an enemy; (these are four: सामन् conciliation or negotiation, दानम् bribery; भेदः sowing dissensions; and दण्डः punishment (open attack); some authorities add three more: माया deceit; उपेक्षा trick, deceit or neglect; इन्द्रजाल conjuring, thus making the total number 7); चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया Śi.2.54; सामादीना- मुपायानां चतुर्णामपि पण्डिताः Ms.7.19.

Joining (as in singing).

Approach.

Initiation, thread ceremony (= उपनयन); अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् MS.6.2.22 (where शबर explains उपायेन प्रवर्तेरन् as उप- नयनेन सह प्रवर्तेरन् ।). -Comp. -आक्षेपः (In Rhet.) Deprecatory speech making mention of the remedy; Kāv..2.151. -चतुष्टयम् the four expedients against an enemy; see above (5). -चिन्ता devising an expedient or scheme. -ज्ञ a. fertile in expedients. -तुरीयः the 4th expedient, i. e. दण्ड or punishment. -योगः application of means or remedy; एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् Ms.9.1. -विकल्पः Alternative strategic means; Kau. A.9.

"https://sa.wiktionary.org/w/index.php?title=उपायः&oldid=243098" इत्यस्माद् प्रतिप्राप्तम्