उपासकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपासकः, पुं, स्त्री, (उपास्ते सेवते यः । उप + आस् + ण्वुल् । द्विजातिसेवकत्वादस्य तथात्वम् ।) शूद्रः । इति राजनिर्घण्टः ॥
उपासकः, त्रि, (उपासते इति । उप + आस् + ण्वुल् ।) उपासनाकर्त्ता । (यथा, वेदान्ते । “चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः । उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना” ॥) स च पञ्चविधः । वैष्णवः १ शाक्तः २ शैवः ३ सौरः ४ गाणपत्यः ५ । त्रिविधश्च यथा । दिव्यः १ वीरः २ पशुः ३ । इत्यागमः ॥ अपि च । सात्त्विकः १ राजसिकः २ तामसिकश्च ३ ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपासकः [upāsakḥ], 1 One who waits upon, a worshipper.
A servant, follower.
A Śūdra, a low fellow.
A worshipper of Buddha as distinguished from theBhikṣu. -Comp. -दशाः N. of one of the Aṅgas or chief Jaina sacred writings.
