उपासनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपासनम्, क्ली, (उपास्यन्ते क्षिप्यन्ते शरा अत्र । उप + असु क्षेपे + अधिकरणे ल्युट् । शुश्रूषादिपक्षे आस भावे + ल्युट् ।) शराभ्यासः । (यथा रामायणे । २ । ६७ । २१ । “श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने” ।) शुश्रूषा । इत्यमरः ॥ (“नित्यनैमित्तिकप्रायश्चित्तो- पासनेन” । “उपासनानि शाण्डिल्यविद्यादीनि” । इति च वेदान्तसारे ।) विहिंसनम् । इति विश्वः ॥ आसनम् । इति मेदिनी ॥ (“मङ्गल्योपासनं शस्तं वृद्धिदं व्यसनापहम्” । इति चक्रपाणिकृतद्रव्यगुणे गुणानां क्रियाभि- धानादिवर्गे ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपासनम् [upāsanam] ना [nā], ना 1 Service, serving, attendance, waiting upon; शीलं खलोपासनात् (विनश्यति); उपासनामेत्य पितुः स्म सृज्यते N.1.34; Pt.1.169; Ms.3.17; Bg.13.7; Y.3.156; Bh.2.42.
Engaging in, being intent on, performing; संगीत˚ Mk.6; सन्ध्या˚ Ms.2.69.
Worship, respect, adoration.
Practice of archery.
Regarding as, reflecting upon.
Religious meditation. न कर्मसांख्ययोगोपासनादिभिः Mukti Up.1.1.
The sacred fire. वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्. Y.3.45.
Injuring, hurting; (fr. अस् 2). -Comp. -उपासना- खण्डः, N. of the first section of the Gaṇeśa Purāṇa.
