उपेन्द्रः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपेन्द्रः, पुं, (इन्द्रमुपगतः । कश्यपादृषेः अदितौ वामनावतारे इन्द्रस्यानन्तरं जातत्वात् तथात्वम् ।) विष्णुः । इत्यमरः ॥ (उपेन्द्रस्यापरां व्युत्पत्तिमाह हरिवंशे ७५ । ४६ । “ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः । उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः” ॥ तथा च भागवते ८ । २३ । २१, २२, २३ । “कश्यपस्यादितेः प्रीत्यै सर्व्वभूतभवाय च । लोकानां लोकपालानामकरोत् वामनं पतिम् ॥ वेदानां सर्व्वदेवानां धर्म्मस्य यशसः श्रियः । मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ उपेन्द्रं कल्पवाञ्चक्रे पतिं सर्व्वविभूतये । तदा सर्व्वाणि भूतानि भृशं मुमुदिरे नृप !” ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपेन्द्रः [upēndrḥ], [उपगत इन्द्रं अनुजत्वात्] N. of Viṣṇu or Kṛiṣṇa as the younger brother of Indra in his 5th or dwarf incarnation; see इन्द्र; उपेन्द्रवज्रादपि दारुणो$सि Gīt.5; यदुपेन्द्रस्त्वमतीन्द्र एव सः Śi.16.7. -Comp. वज्राf. N. of a metre; see App. -अपत्यम् Madana, God of love. ... उद्भटोपेन्द्रापत्यपराक्रमैकनिधयो भद्राणि संतन्वते Chola Champu P.27, verse 61.
