सामग्री पर जाएँ

उपोदिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपोदिका, स्त्री, (उपाधिकमुदकमस्याम् । उत्तर- पदस्य चेत्युत्तरपदस्योदादेशः । कप् । टाप् ।) पूतिका । इत्यमरः ॥ अस्या गुणाः । सारकत्वम् । स्निग्धत्वम् । बलश्लेष्मकारित्वम् । हिमत्वञ्च । इति राजवल्लभः ॥ (यथा, वैद्यके । “तण्डुलैरानतव्याजैर्हसत्येषा उपोदिका” । “मदघ्नी चाप्युपोदिका” । इति सूत्रस्थाने ६ अध्याये वाभटेनोक्तम् ॥ “उपोदिकादधिभ्यान्तु सिद्धा मदविनाशिनी” । इति चरके सूत्रस्थाने २ अध्याये ॥ “स्वादुपाकरसा वृष्या वातपित्तमदापहा । उपोदिका सरा स्निग्धा बल्या श्लेष्मकरी हिमा” ॥ इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपोदिका¦ स्त्री उपाधिकमुदकं यत्र उदादेशः संज्ञायां कन्अतैत्त्वम्। पूतिकाशाके अमरः तत्पाकादि प्रकारगुणादिवैद्यके उक्तम्।
“एकाहं षड्रमोपेता किमन्यैर्व्यञ्जनान्तरैः। तण्डुलैरानतव्याजैर्हसत्येषा उपोदिका। वटपत्रवच्छुभ-पत्रिका परितप्ततैलसुपाचिता। नवहिङ्गुवासमुवासितापरिभोक्तृचित्तसुविकाशिका। सुतप्तवतैलविपाचिता सुघ-नाम्लतक्रसुपाचिता। सूपोदिकाज्यभर्ज्जिता भोक्तु-राशु रसनाग्रनर्त्तकी। पोदिका शीतला बल्या श्लेष्मला[Page1362-a+ 38] वातपित्तहा। पथ्यात्र दोषशमनी निद्रापुष्टिकरी मता” उपाधिकमुदकं यत्र उदादेशः गौरा॰ ङीष् स्वार्थे कन्वा ह्रस्यः। उपोदीकाप्यत्र स्त्री

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उपोदिका¦ f. (-का) A potherb, (Basella rubra or lucida.) E. उप and उद water, कन् and टाप् affs. and इ substituted for the pen. or ई being substituted उपोदीका।

"https://sa.wiktionary.org/w/index.php?title=उपोदिका&oldid=493384" इत्यस्माद् प्रतिप्राप्तम्