सामग्री पर जाएँ

उभयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उभयः, त्रि, (उभौ अवयवौ अस्य । उभ + तयप् । उभादुदात्तो नित्यमिति । ५ । २ । ४४ । तयपो- ऽयजादेशः । कथमुभये देवमनुष्या इति यतो बहूनामुभावयवौ न घटतः । नैष दोषः । अत्र हि द्वौ राशी समुदायस्यावयवौ । एको देवानां अपरो मनुष्याणामिति । उभादुदात्तो नित्यमिति नित्य- ग्रहणस्येदं प्रयोजनं वृत्तिविषये उभशब्दप्रयोगो माभूत् उभयशब्दस्यैव यथा स्यादिति ।) युगलम् । इति शब्दचन्द्रिका ॥ दुइ इति भाषा । (यथा, मनुः । २ । ५५ ॥ “पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति । अपूजितन्तु तद्भक्तमुभयं नाशयेदिदम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=उभयः&oldid=119780" इत्यस्माद् प्रतिप्राप्तम्