सामग्री पर जाएँ

उरुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उरुः, त्रि, (उर्णौति । ऊर्णू + “महति ह्रस्वश्च” ४ । १ । ३२ । इति उणादिसूत्रेण कुः नुलोपो ह्रस्वश्च ।) महान् । वड इति भाषा । तत्पर्य्यायः । वड्रम् २ विपुलम् ३ विशङ्कटम् ४ पृथु ५ वृहत् ६ विशालम् ७ पृथुलम् ८ महत् ९ । इत्यमरः ॥ विस्तीर्णम् १० विकटम् ११ । इति जटाधरः ॥ (यथा, महाभारते १ । सौपर्णे । २१ । १८ । “विलीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्” । बहुलम् । यथा, ऋग्वेदे १ । २९ “तुविजिता उरुक्षयां” । “उरुक्षयो बहुनिवासौ” इति भाष्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=उरुः&oldid=119934" इत्यस्माद् प्रतिप्राप्तम्