सामग्री पर जाएँ

उर्व्वशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उर्व्वशी, स्त्री, (उरून् महतोऽपि अश्नुते व्याप्नोति वशीकरोतीति यावत् । यद्वा ऊरुं नारायणस्य महर्षेरूरुप्रदेशं अनुते योनित्वेन व्याप्नोतीति । उरु + अश् + क । गौरादित्वात् ङीष् ।) स्वना- मख्यातस्वर्गवेश्या । इत्यमरः ॥ तस्या उत्पत्तिर्ह रिवंशे । नारायणोरुं निर्मिद्य सम्भूता वरवर्णिनी । मनीषादित्वात् ह्रस्वादिः ॥ (अस्या उत्पत्तिकथा उक्ता भागवते ११ । ४ । ६-१६ । यथा, -- “धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यां नारायणो नर ऋषिप्रवरः प्रशान्तः । नैष्कर्म्म्यलक्षणमुवाच चचार कर्म्म योऽद्यापि चास्त ऋषिवर्य्यनिषेविताङ्घ्रिः ॥ इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स वदर्य्युपाख्यम् । गत्वाप्सरोगणवसन्तसुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्मतिज्ञः ॥ विज्ञाय शक्रकृतमक्रममादिदेवः प्राह प्रहस्य गतविस्मय एजमानान् । मा भैष्ट भो मदनमारुतदेवबध्वो गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ इत्थं ब्रुवत्यभयदे नरदेव ! देवाः सव्रीडनम्रशिरसः सघृणं तमूचुः । नैतत् विभो त्वयि परे विकृते विचित्रं स्वारामधीरनिकंरानतपादपद्मे ॥ त्वां सेवतां सुरकृता बहवोऽन्तरायाः स्वौको विलङ्घ्य परमं व्रजतां पदं ते । नान्यम्य वर्हिषि बलीन् ददतः स्वभागान् । धत्ते पदं त्वमविता यदि विघ्नमूर्द्ध्नि ॥ क्षुत्त्रिट्त्रिकालगुणमारुतजैह्व्यशैश्न्या- नस्मानपारजलधीनतितीर्य्य केचित् ॥ क्रोधस्य यान्ति विफलस्य वशं पदे गो- र्मज्जन्ति दुञ्चरपथश्च वृथोत्सृजन्ति । इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः । दर्शयामास शुश्रूषां स्वर्चिताः कुर्व्वतीर्विभुः ॥ ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः । गन्धेन मुमुहुस्तासां रूपौदार्य्यहतश्रियः ॥ तानह देवदेवेशः प्रणतान् प्रहसन्निव । आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः । उर्व्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् । ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः” ॥ पुराणान्तरेषु ऋषिप्रवरोऽयं नारायणो निजो- रुदेशं निर्भिद्य अप्सरःश्रेष्ठाभेनामुर्व्वशीं देवगणेभ्यो ददौ इति दृश्यते ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उर्व्वशी¦ f. (-शी) The name of one of the courtezans of Swarga or INDRA'S heaven. E. उरु great, वश् to tame, अच् and ङीष् affixes; also उर्व्वसी and ऊर्व्वसी।

"https://sa.wiktionary.org/w/index.php?title=उर्व्वशी&oldid=245018" इत्यस्माद् प्रतिप्राप्तम्