उलूकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूकः, पुं, (उचतीति, उच समवाये, उलूकादय- इति साधु, यद्वा वलते, उलूकादित्वात् वलेः सम्प्र- सारणम् ऊकश्च ।) पेचकपक्षी । इत्यमरः ॥ तत्- पर्य्यायः । तामसः २ घूकः ३ दिवान्धः ४ कौ- शिकः ५ कुशिः ६ नक्तञ्चरः ७ निशाटः ८ का- कारिः ९ घोरदर्शनः १० । इति राजनिर्घण्टः ॥ (“त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः” । इति माघे ११ । ६४ । तथा, मनुः ११ । १३१ । “श्वगोधोलूककाकांश्च शूद्रहत्याव्रतञ्चरेत्” ॥) इन्द्रः । (“उलूकाविन्द्रपेचकौ” । इत्युणादिवृत्तिः । ४ । ४१ ।) भारतयोधी । सच शकुनिपुत्त्रः । इति हेमचन्द्रः ॥ (यथा, महाभारते । “आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् । उलूक गच्छ कैतव्य ! पाण्डवान् सहसोमकान्” ॥ विश्वामित्रपुत्त्रः । यथा, भारते १३ । ४ । ५१ । “उलूकोऽथ मुद्गलश्च तथर्षिः सैन्धवायनः” ।) उलूकदेशवासिनि त्रि । यथा, महाभारते २ । २७ । ११ । “उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूकः [ulūkḥ], 1 An owl; नोलूकोप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् Bh.2.93; त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः Śi.11.64. cf. also कथमुलूकशब्द उलूकवचनः । रल्योः समान- वृत्तित्वात् । ŚB. on MS.9.4.22.

N. of Indra.

N. of a Muni (perhaps identical with कणाद, whose वैशेषिक- दर्शन is called आलूक्य-दर्शन).

(pl.) N. of a country and its king who was an ally of the Kurus.

कम् N. of the reed Saccharum Cylindricum; see उलप.

Fat; वनिष्टुसन्निधानादुरूकेण वपाभिधानम् । (v. l.) MS.9.4.22. -जित् A crow. -यातुः A demon in the shape of an owl; उलूकयातुं शुशुलूकयातुम् Rv.7.14.22.

"https://sa.wiktionary.org/w/index.php?title=उलूकः&oldid=493521" इत्यस्माद् प्रतिप्राप्तम्