सामग्री पर जाएँ

उल्काचक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उल्काचक्र¦ न॰ रुद्रयामलोक्ते ग्राह्यमन्त्रशुभाशुभज्ञापकचक्रभेदे
“उल्काचक्रं सर्वसारं मन्त्रदोषादिनिर्णयम्। मत्स्याकारमूर्द्ध्वमुखं सर्वमन्त्रादिविग्रहम्। स्कन्धदेशावधिनाथ! पुच्छपर्यन्तमेव च। अकाराक्षरमारभ्य द्वादशा-क्षरमातृकम्। विलिखेत् पृष्ठदेशं तु शुभाशुभविशुद्धये। त्रयोदशाक्षरान्नाथ! एकविंशाक्षरान्तकम्। नेतव्यंसाध-कैर्मन्त्रं पृष्ठस्थं समुदाहृतम्। तथा श्रीशुभदं प्रोक्तं क-ण्ठादिपुच्छकान्तकम्। द्वाविंशादि चतुस्त्रिंशदक्षरान्तंशुभं मनुम्। पुच्छस्थं नापि गृह्णीयान्मुखस्थञ्च तथाध्रुवम्। शीर्षस्थञ्चापि गृह्णीयात् तदक्षरं शृणुप्रभो!। पञ्चत्रिंशादि द्वाचत्वारिंशद्वर्णान्तमेव च। मस्त-कस्थं शुभं प्रोक्तं मुखवर्णान् शृणु प्रभो। त्रिचत्वारिं-शवर्णादि एकपञ्चाशदन्तकम्। मुखस्थमन्त्रं मन्त्री तु नगृह्णीयात् कदाचन। पुच्छस्थं शृणु यत्नेन निरर्थकमहा-र्त्तिदम्। भ्रमो गात्रस्य पीडाभिः देवता कुप्यतेऽनिशम्। द्विपञ्चाशदक्षरादि एकपष्टितमान्तिकान्। वर्णान् पुच्छ-स्थितान् प्रोक्तान् नेत्रस्थान् शृणु वल्लभ!। द्विषष्टितमव-र्ण्णादि चतुषष्ठ्यक्षरान्तकम्। अङ्गं लोचनमन्त्रञ्च त-तोऽन्यत् रसनास्थितम्। तत् सर्वं शुभदं प्रोक्तं एतदन्यतमशृणु। वैष्णवानाञ्च शैवानां शाक्तानां मन्त्रजापनम्। अन्यदेवेषु भक्तानां भक्तिमुक्तिप्रदं नृणाम्”।
“एतच्च चतु-षष्टिस्त्रिषष्टिर्वा वर्ण्णाः सम्भवतोमताः। स्वराविंशतिरेकश्चस्पर्शानां पञ्चविंशतिः। यादयश्च स्मृताश्चाष्टौ चत्वारश्चयमास्तथा। अनुस्वारो विसर्गश्च + कं पौ चापि पराश्रितौ। दुस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च” इति शिक्षो-क्तविभागाभिप्रायं चतुःषष्टेरन्यकथनम् कॢकारस्य दीर्घ-सत्त्वमतेनेति बोध्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उल्काचक्र/ उल्का--चक्र n. (in astrol. ) a particular position of the stars , रुद्रयामल( T. )

"https://sa.wiktionary.org/w/index.php?title=उल्काचक्र&oldid=493528" इत्यस्माद् प्रतिप्राप्तम्