उल्लोप्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उल्लोप्य¦ न॰ उद् + लुप--यत्। लौकिकगीतिभेदे। तच्चमिताक्षरायां दर्शितं यथा।
“यस्य पुनश्चित्तवृत्तिर्न्निराकारालम्बनतया समाधौ नाभि-रमते तेन शब्दब्रह्मोपासनं कार्य्यमित्याह।
“यथाविधा-नेन पठत् सामगायमविच्युतम्। सावधानस्तदभ्यासात्प-रं ब्रह्माधिगच्छति” या॰।
“स्वाध्यायावगतमार्गानतिक्रमेणसामगायं साम्नोगानात्मकत्वेऽपि गायमिति विशेषणम्अगोतमन्त्रव्युदासार्थम्। अविच्युतमक्खलितम्। साव-धानः समाध्यनुष्यूतात्मैकाग्य्रचित्तवृत्तिः। पठन् त-दभ्यासवशात्तत्र निष्णातः। शब्दाकारशून्योपासने पर-म्ब्रह्माधिगच्छति। तदुक्तम्।
“शब्दब्रह्मणि निष्णातःपरं ब्रह्माधिगच्छतीति”। यस्य पुनर्वौदक्याङ्गीतौ चित्तंनाभिरमते तेन लीकिकगीतानुष्यूतात्मोपासनङ्कार्य्यमि-त्याह।
“अपरान्तकमुल्लोप्यं मद्रकम्प्रकरीन्तथा। औवे-णकं सरोविन्दु मुत्तरङ्गीतकानि च। ऋग्गाथापाणिकादक्षविहिता ब्रह्मगीतिका। गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम्” या॰।
“अपरान्तकोल्लोप्यभद्रकप्रकर्य्यौवेणकानिसरोविन्दुकसहितञ्चोत्तरमित्येतानि प्रकरणाख्यानि सप्तगीतकानि। चशब्दादासारितबर्द्धमानकादि गीतकानिगृह्यन्ते। गाथाद्याश्चतस्रोगीतकानि गृह्यन्ते। ऋग्गाथा-द्याश्चतस्रोगीतिका इत्येतदपरान्तकादिगीतजातमध्या-रोपितात्मभावम्मोक्षसाधनत्वान्मोक्षसंज्ञितं मन्तव्यम्। तदभ्यासस्यैकाग्रतापादनद्वारेणात्मैकतापत्तिहेतुत्वात्।
“चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरमाह।
“गी-तज्ञो यदि योगेन नाप्नोति परमम्पदम्। रुद्रस्यानुचरोभूत्वासह तेनैव मोदते” या॰।
“गीतज्ञोयदि कथञ्चिद्योगेनपरमम्पदन्न प्राप्नोति। तर्हि रुद्रस्य सचिवोभूत्वा तेनैवसह मोदते”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उल्लोप्य/ उल्-लोप्य n. a kind of song Ya1jn5.
