सामग्री पर जाएँ

उल्वम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उल्वम्, क्ली, (उल्लीयते इति । उत् + लीङ् श्लेषणे उल्वादयश्च ४ । ९५ । इति उणादिसूत्रेण साधुः ।) जरायुः । इत्यमरः ॥ (यथा, गीतायां ३ । ३८ । “यथोल्वेनावृतो गर्भस्तथा तेनेदमावृतम्” । “जातमात्रं विशोध्योल्वाद्बालं सैन्धवसर्पिषा । प्रसूतिक्लेशितञ्चानु बलातैलेन सेचयेत्” ॥ इति वाभटः उत्तरस्थाने १ अध्याये उक्तवान् ॥ “अथ जातस्योल्वं मुखञ्च सैन्धवसर्पिषा विशोध्य घृताक्तं मूर्द्ध्नि पिचुं दद्यात् ततो नाभिनाडीमष्टा- ङ्गुलमायम्य सूत्रेण बद्ध्वा च्छेदयेत्तत्सूत्रैकदेशञ्च कुमारस्य ग्रीवायां सम्यग् बध्रीयात् । इति सुश्रुते शारीरस्थाने १० अध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=उल्वम्&oldid=120106" इत्यस्माद् प्रतिप्राप्तम्