सामग्री पर जाएँ

उशिक्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उशिक्, त्रि, (वश कान्तौ + इजि + सम्प्रसारणम् ।) कमनीयम् ॥ “न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसाः न यत्र हंसा निरमन्त्युशिक्क्षयाः” ॥ इति श्रीभागवते १ स्कन्धे ५ अध्यायः । “चित्रपद- मपि यद्वचो हरेर्यशो न प्रगृणीत तद्वायसं तीर्थं काकतुल्यानां कामिनां रतिस्थानं उशन्ति मन्यन्ते कुतः मानसाः सत्त्वप्रधाने मनसि वर्त्तमाना हंसाः यतयो यत्र न निरमन्ति कर्हिचिदपि नितरां न रमन्ते । उशिक्क्षयाः उशिक् कमनीयं ब्रह्म क्षयो निवासो येषां ते यथा प्रसिद्धा हंसाः मानससरसि चरन्तः कमनीयपद्मषण्डनिवासा- स्त्यक्तविचित्रान्नादियुक्ते उच्छिष्टगर्त्ते काकक्रीडा- स्थाने न रमन्ते इति शेषः” । इति तट्टीकायां श्रीधरस्वामी ॥ (कामयमानम् । यथा ऋग्वेदे १ । १३१ । ५ “आदित्ते अस्य वीर्य्यस्य चर्किर- न्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदा- विथ” । “उशिजो धर्म्मं कामयमानाः जनाः” । इति भाष्यम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

UŚIK I : A hermit about whom mention is made in the Ṛgveda.


_______________________________
*12th word in left half of page 813 (+offset) in original book.

UŚIK II : One Uśik as the wife of the hermit Dīrghatamas is mentioned in the Ṛgveda Maṇḍala 1, Anuvāka 16, Sūkta 112. This Usik was the maid of the queen of the old King of Kaliṅga. The king requested Dīrghatamas to beget children by his queen. The queen did not like this. She sent her maid Usik to Dīrghatamas. The hermit Kakṣīvān was the son born to Dīrghatamas by Uśik. (Ṛgveda, Maṇḍala 1, Anuvāka 18, Sūkta 125).


_______________________________
*13th word in left half of page 813 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उशिक्&oldid=426754" इत्यस्माद् प्रतिप्राप्तम्