सामग्री पर जाएँ

उशीरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उशीरः, पुं, क्ली, (वश कान्तौ + “वशः कित्” । ४ । ३१ इति उणादिसूत्रण ईरन् । सम्प्रसारणम् ।) वीरणमूलम् । वेनार मूल् खस् इत्यादि भाषा । तत्पर्य्यायः । अभयम् २ नलदम् ३ सेव्यम् ४ अमृ- णालम् ५ जलाशयम् ६ लामज्जकम् ७ लघुलयम् ८ अवदाहम् ९ इष्टकापथम् १० । इत्यमरः ॥ उषीरम् ११ मृणालम् १२ लघु १३ लयम् १४ अवदानम् १५ इष्टम् १६ कापथम् १७ अवदाहेष्टकापथम् १८ इन्द्रगुप्तम् १९ । इति तट्टीकायां भरतादयः ॥ जलवासम् २० हरिप्रियम् २१ वीरम् २२ वीरणम् २३ समगन्धिकम् २४ रणप्रियम् २५ वीरतरु २६ शिशिरम् २७ शीतमूलकम् २८ वितानमूलकम् २९ जलमेदम् ३० सुगन्धिकम् ३१ सुगन्धिमूलकम् ३२ कम्भु ३३ । इति राजनिर्घण्टः ॥ अस्य गुणाः । घर्म्मदार्गन्ध्यदाहपित्तरक्तरोगनाशित्वम् । इति राजवल्लभः ॥ अपिच । शीतलत्वम् । तिक्तत्वम् । मोहभ्रमापहत्वम् । ज्वरार्त्तिपित्तशमनकारित्वम् । जलसौगन्ध्यदायकत्वञ्च । इति राजनिर्घण्टः ॥ (यथा, शाकुन्तले ३ अङ्के । “प्रियंवदे ! कस्येद- मुशीरानुलेपनं मृणालवन्ति च नलिनीदलानि नीयन्ते” । अस्य पर्य्यायगुणाः यथा, “वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् । अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ॥ उशीरम्पाचनं शीतं स्तम्भनं लघु तिक्तकम् । मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत् ॥ तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहम्” । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=उशीरः&oldid=120132" इत्यस्माद् प्रतिप्राप्तम्