उशीरवीज
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उशीरवीज¦ पु॰ उशीरस्य वीरणमूलस्य वीजं योनिरत्र। उत्तर-दिक्स्थेपर्वतभेदे
“उशीरवीजं मैनाकं गिरिं श्वेतञ्च भारत!। समतीतोऽसि कौन्तेय! नीलशैलञ्च पार्विव!” इत्युपक्रम्य
“श्वेतं गिरिं प्रवेक्ष्यामो मन्दरञ्चैव पर्वतम्। यत्र माणि-वरोयक्षः कुवेरश्चैव यक्षराट्” भा॰ व॰
१३
० अ॰ उक्ते-स्तस्य उत्तरदिक्स्थत्वं मन्दरगिरिसन्निकृष्टत्वञ्च
“तुषार-चयसङ्काशो मन्दरश्चैव पर्वतः। उशोरवीजश्च गिरीरुद्रोपस्थ-स्तथाद्रिराट्” हरि॰
२३
६ अ॰ उक्तेः कैलाशसन्निकृष्टत्वमषि
