सामग्री पर जाएँ

उष्ट्रग्रीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उष्ट्रग्रीव¦ पु॰ उष्ट्रग्रीवा आकारत्वेनास्त्यस्य अर्श॰ अच्। सुश्रुतोक्ते पैत्तिके भगन्दररोगभेदे। तन्निदानस्वरू-पादि तत्रोक्तं यथा
“वातपित्तश्लेष्मसन्निपातागन्तुनिमित्ताःशतपोनकोष्ट्रग्रीवपरिस्राविशम्बूकावर्त्तोन्मार्गिणो यथासङ्ख्यंपञ्च भगन्दरा भवन्ति। ते तु भगगुदवस्तिप्रदेशदारणाच्चभगन्दरा इत्युच्यन्ते। अपक्वाः पिडकाः पक्वास्तु भगन्दराः। तेषान्तु पूर्वरूपाणि कटीकपालवेदना गुदकण्डूर्द्दाहः शोफश्चगुदस्य भवति” इत्युपक्रम्य।
“पित्तन्तु प्रकुपितमनिलेनाधः-प्रेरितं पूर्ववदवस्थितं रक्तां तन्वीमुच्छ्रितामुष्ट्रग्रीवाकारांपिडकां जनयति। सास्यचोषादीन्वेदनविशेषानु जनयत्य-प्रतिक्रियमाणा च पाकमुपैति वक्षश्चाग्निक्षाराभ्यामिवदह्यते दुर्ग्गन्धमुष्णमास्रावं स्रवत्युपेक्षितश्च वातमूत्रपुरी-षरेतांसि विसृजति, तं भगन्दरमुष्ट्रग्रीवमित्याचक्षते”। उष्णशिरोधरोऽप्यत्र
“प्रकोपणैः पित्तमतिप्रकोपितः करोतिरक्तां पिडकां गुदागताम्। तदानुपाकाहिमपूतिवाहिनीम्भगन्दरं तूष्ट्रशिरोधरं वदेत्” निदानम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उष्ट्रग्रीव¦ m. (-वः) Hemorrhoids. E. उष्ट्र and ग्रीवा the neck.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उष्ट्रग्रीव/ उष्ट्र--ग्रीव m. hemorrhoids Sus3r.

"https://sa.wiktionary.org/w/index.php?title=उष्ट्रग्रीव&oldid=245841" इत्यस्माद् प्रतिप्राप्तम्