सामग्री पर जाएँ

उष्ट्रशिरोधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उष्ट्रशिरोधरम्, क्ली, (उष्ट्रस्य शिरोधरः ग्रीवा इव आ- कृतिर्यस्य ।) भगन्दररोगविशेषः । तस्य लक्षणम् । “प्रकोपनैः पित्तमतिप्रकोपितं करोति रक्तां पिडकाङ्गदागताम् । तदाशुपाका हिमपूतवाहिनी भगन्दरन्तूष्ट्रशिरोधरं वदेत्” ॥ इति निदानम् । (अस्य लक्षणं चिकित्साञ्चोक्तवान् वाभटे उत्तरस्थाने २८ अध्याये । अस्य नामान्तर- मुष्ट्रग्रीवः । यथा । “पित्तादुष्ट्रग्रीवावदुच्छ्रिता ॥ रागिणी तनुरुष्माढ्या ज्वरधूमायनान्विता” । “उष्ट्रग्रीवस्तु पित्तजः” । “अग्निना वा भिषक् साधुक्षारेणैवोष्ट्रकन्धरम्” । सुश्रुतेन निदानस्थाने ४ अध्याये यत् सम्प्राप्ति- पूर्ब्बकं लक्षणमस्योक्तं तद्यथा ॥ पित्तन्तु प्रकुपित- मनिलेनाधः प्रेरितं पूर्ब्बवदवस्थितं रक्तां तन्वी- मुच्छ्रितामुष्ट्रग्रीवाकारां पिडकां जनयति । सास्य- चोषादीन् वेदनाविशेषान् जनयत्यप्रतिक्रियमाणा च पाकमुपैति व्रणश्चाग्निक्षाराभ्यामिव दह्यते दुर्गन्धमुष्णमास्रावं स्रवत्युपेक्षितश्च वात्मूत्र- पुरीष-रेतांसि विसृजति तं भगन्दरमुष्ट्रग्रीव- मित्याचक्षते” ॥ इति । * ॥ सुश्रुते चिकित्सितस्थाने ८ अध्याये चिकित्सा यथा, -- “उष्ट्रग्रीवे क्रियां शृणु । अथोष्ट्रग्रीवमेषित्वा च्छित्त्वा क्षारं निपातयेत् । पूतिमांसव्यपोहार्थमग्निरत्र न पूजितः । अथैनं घृतससृष्टैस्तिलैः पिष्टैः प्रलेपयेत् ॥ बन्धं ततोऽनुकुर्व्वीत परिषेकन्तु सर्पिषा । तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक् ॥ ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमं । उत्कृत्यास्रावमार्गन्तु परिस्राविणि बुद्धिमान् ॥ क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा । सुखोष्णेनाणुतैलेन सेचयेद्गुदमण्डलम् ॥ उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः । वामनीयौषधैः कार्य्याः परिषेकाश्च मात्रया” ॥)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उष्ट्रशिरोधर¦ m. (-रः) Piles, hemorrhoids, bleeding piles. E. उष्ट्र a camel, शिरस् head, and धर what has.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उष्ट्रशिरोधर/ उष्ट्र--शिरोधर n. hemorrhoids.

"https://sa.wiktionary.org/w/index.php?title=उष्ट्रशिरोधर&oldid=245890" इत्यस्माद् प्रतिप्राप्तम्