उष्णः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्णः, पुं, (उष दाहे + “इण्षिञ्जिदीङुष्यविभ्योनक्’ । ३ । २ । इति उणादिसूत्रेण नक् ।) ग्रीष्मऋतुः । तत्पर्य्यायः । ग्रीष्मः २ उष्मकः ३ निदाघः ४ उष्णो- पगमः ५ उष्णागमः ६ तपः ७ । इत्यमरः ॥ आ- तपः । इति हेमचन्द्रः ॥ (यथा, सुश्रुते चिकित्- सितस्थाने २४ अध्यायः । “उष्णे हैमे वसन्तेच कामं ग्रीष्मे तु शीतलम्” । क्वचित् क्लीवलिङ्गान्तोऽपि दृश्यते । यथा महाभारते संवर्त्तमरुत्तीये । १४ । ८ । ९ । “नोष्णं न शिशिरस्तत्र न वायुर्न च भास्करः” । अग्निः । सूर्य्यः । यथा, मनुः ११ । ११३ । “उष्णे वर्षति शीते वा मारुते वाति वा भृशम्” । (“उष्णे आदित्ये मेघे च वर्षति” इति तट्टीकायां कुल्लुकभट्टः ॥) पलाण्डुः । इति राजनिर्घण्टः ॥ उष्णवीर्य्यद्रव्यगुणाः । पित्तबलकारित्वम् । लघु- त्वम् । वातश्लेष्मनाशित्वच्च । इति राजवल्लभः ॥
उष्णः, त्रि, (उष् + नक् ।) निरालस्यव्यक्तिः । तत्प- र्य्यायः । दक्षः २ चतुरः ३ पेशलः ४ पटुः ५ सूत्थानः ६ । इत्यमरः । अशीतः । इति मेदिनी ॥ (यथा मनुः । ३ । २३७ । “यावदुष्णं भवत्यन्नं यावदश्नाति वाग्यतः” ॥)
