सामग्री पर जाएँ

उष्णीषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उष्णीषः, पुं, क्ली, (उष्णमीषते हिनस्तीति । ईष गति- हिंसादर्शनेषु । इगुपधेति कः । शकन्ध्वादिः ।) शिरोवेष्टः । इत्यमरः ॥ पाग इति भाषा । अस्य गुणाः । केशचक्षुरायुर्वद्धकत्वम् । धूलिशीतोष्ण- निवारकत्वञ्च । इति राजवल्लभः ॥ यथा । “उष्णीषं कान्तिकृत् केश्यं रजोवातकफापहम् । लघु चेच्छस्यते यस्मात् गुरुपित्ताक्षिरोगकृत्” ॥ इति भावप्रकाशः ॥ किरीटः । (यथा, महाभारते सौभबधोपाख्याने ३ । २१ । २४ । “विशीर्णमलिनोष्णीषः प्रकीर्णाम्बरमूर्द्धजः” । रजोऽवश्यायसूर्य्यांशुहिमानिलनिवारणं । प्रतिश्यायशिरःशूल-हरञ्चोष्णीषधारणम् । इति वैद्यकचक्रपाणिकृतद्रव्यगुणे गुणानां क्रिया- भिधानादिवर्गे ॥ “बाणवारं मृजावर्णतेजोबलविवर्द्धनम् । पवित्रं केश्यमुष्णीषं वातातपरजापहम्” ॥ इति सुश्रुते चिकित्सितस्थाने २४ अध्याये ॥) चिह्नान्तरम् । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उष्णीषः [uṣṇīṣḥ] षम् [ṣam], षम् [उष्णमीषते हिनस्ति ईष् क Tv.]

Anything wound round the head. रक्तोष्णीषधराः स्त्रियः Rām. 6.8.6. उष्णीषबन्धस्थाने ललाटोपरि पट्टबन्धरेखा.

Hence, a turban, diadem, crownet; बलाकापाण्डुरोष्णीषम् Mk.5.19. हेमासने कृतोष्णीषमभिषिच्य नृपं व्यधात् Bm.1.678. उष्णीषेणैव शुचिना व्यभादुत्तंसधारिणा Śiva. B.21.29. and 22.8. ˚पट्ट K.16; Ratn.1.4.

A distinguishing mark.

A characteristic mark (of hair) on the head of a Buddha which indicates his future sanctity उष्णीषः स्फुट एष मूर्धनि विभात्यूर्णेयमन्तर्भुवोः Nāg.1.17.

The top of a building.

"https://sa.wiktionary.org/w/index.php?title=उष्णीषः&oldid=246096" इत्यस्माद् प्रतिप्राप्तम्