उष्णोदक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्णोदकम्, क्ली, (उष्णञ्च तत् उदकञ्चेति ।) तप्तजलम् । क्वाथ्यमानपादावशेषार्द्धावशेषपादहीनं जलम् । तद्विधिर्यथा । “अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन बा । अथवा क्वथनेनैव सिद्धमुष्णोदकं बदेत्” ॥ अस्य गुणाः । सदा पथ्यत्वम् । कासज्वरविबन्ध- कफवाताममेदोनाशित्वम् । दीपनत्वम् । वस्ति- शोधनत्वञ्च । श्वास-कास-ज्वर-हरं पथ्यमुष्णोदकं सदा । यत् क्वाथ्यमानं निर्व्वेगं निःफेनं निर्म्मलं लघु ॥ चतुर्भागावशेषन्तु तत्तोयं गुणवत् स्मृतम् । न च पर्य्युषितं देयं कदाचिद्वारि जानता ॥ अम्लीभूतं कफोत्क्लेशि न हितं तत् पिपासवे । मद्यपानात् समुद्भूते रोगे पित्तोत्थिते तथा ॥ सन्निपातसमुत्थे च शृतशीतं प्रशस्यते” । इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥) तमुवाच भगवानात्रेयो ज्वरितस्य कायसमुत्थान- देश-कालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णं प्रयच्छन्ति भिषजः । ज्वरो ह्यामाशयसमुत्थः प्रायो भेषजानि चामाशयसमुत्थानां विकाराणां पाचन- वमनापतर्पणानि शमनानि भवन्ति पाचनार्थञ्च पानीयमुष्णं तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भि- षजो भूयिष्ठम् । तद्ध्येषां पीतं वातमनुलोमयति अग्निमुदर्य्यमुदीरयति । क्षिप्रं जरां गच्छति श्लेष्माणञ्च परिशोषयति स्वल्पमपि च पीतं तृष्णा- प्रशमनायोपपद्यते तथा युक्तमपि चैतन्नात्यर्थोत्- सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा प्रदेयमुष्णेन हि दाह-भ्रम-प्रलापातिसारा भूयो- ऽभिवर्द्धन्ते शीतेनोपशाम्यन्तीति” । इति चरके विमानस्थाने ३ अध्यायः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्णोदक¦ न॰ कर्म्म॰। अग्निना तप्तजले काथ्यभानपादशेषा-र्द्धावशेषपादादिहीनके जले तद्गुणादि भावप्र॰
“अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा। अथवा क्वथने-नैव सिद्धमुष्णोदकं वदेत्” तद्गुणाः
“श्लेष्मामवातमेदोघ्नंवास्तशोधनदीपनम्। कासश्वासज्वरान् हन्ति पीतमु-ष्णोदकं निशि। क्वाथ्यमानन्तु निर्वेगं निष्फेनं निर्म्मल-न्तथा। अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते। ज्वरकासकफश्वासवातपित्ताममेदसाम्। नाशनं वस्तिसंशोधि-पथ्यमुष्णोदकं सदा। त्रिपादशषं सलिलं ग्रीष्मेशरदि शस्यते। हिमेऽर्द्धशेषं शिशिरे तथा वर्षावसन्तयोः” अन्ये तु
“निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम्। शि-शिरे च वसन्ते च हिमे चार्द्धावशेषितम्। अष्टमांशावशेषन्तु वारि वर्षासु शस्यते” केचित्तु
“विधिष्वङ्गेषु वाणेयवेदेषु त्रिषु पक्षयोः। एकभामावशेषं स्यादम्बु वर्षा-दिषु क्रमात्”। अत्र दोषाणां ययोल्वणता हीनता वातथा व्यवस्था कल्पनीया।
“तत् पादहीनं पित्तघ्नम-[Page1382-a+ 38] र्द्धहीनन्तु वातनुत्। त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्नि-करं लघु”। त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा। तस्यलक्षणगुणास्तु।
“पादशेषन्तु यत्तोयमारोग्याम्बु तदुच्यते। आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम्। सद्यो-ज्वरहरं ग्राहि दीपनं पाचनं लघु। आनाहपाण्डु-शूलार्शोगुल्मशोथोदरापहम्” भा॰ प्र॰
“दिवा शृतन्तु यत्तोषं रात्रौ तद्गुरुतां व्रजेत्” वैद्यकम्।
“संक्रान्तौवर्षवृद्धौ च ग्रहणे चन्द्रसूर्य्ययोः। सूतके मृतके चैव नस्नायादुष्णवारिणा” स्मृतिः।
“क्षेत्रस्थमुद्धृतं वापिशीतमुष्णमथापि वा। गाङ्गं पयः पुनात्याशु पापमा-मरणान्तिकम्” मरीचिः।
“नित्यं नैमित्तिकञ्चैव क्रियाङ्गंमलकर्षणम्। तीर्थाभावे च कर्त्तव्यमुष्णोदकपरोदकैः” यमः।
“उष्णाम्बुनाधःकायस्य परिषेको मलापहम्। तेनैव षोत्तमाङ्गस्य बलनुत् केशचक्षुषोः” आ॰ त॰ आयु-र्वेदः। उष्णोदकेनाचमननिषेध आचमनशब्दे उक्तः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्णोदक¦ n. (-कं) Warm or hot water. E. उष्ण and उदक water.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्णोदक/ उष्णो n. hot water , water boiled and so reduced in quantity (said to be wholesome to drink and healing when used for bathing) Bhpr.
