ऊन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊन, त् क परिहाने । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) दीर्घादिर्दन्त्योपधः । तथा च । “क्षोभमाशु हृदयं न यदूनां रागवृद्धिमकरोन्न यदूनाम्” । इति माघयमकम् । परिहानं न्यूनक्रिया । ऊनयति बणिक् स्वर्णं प्रथमपरिमाणात् । परि- माणमात्रेऽयमिति केचित् । मा भवान् ऊनिनत् । ऊनधोर्ञिः अङ् द्वित्वे स्वस्थानमेव नास्ति अतो नाग्लोपित्वमिति सन्देहनिरासार्थमाह । ओने- रृदनुबन्धज्ञापकबलात् द्वित्वात् प्राक् प्राप्तो ह्रस्वो अग्लोपित्वान्न स्यात् । इति दुर्गादासः ॥

ऊनम्, त्रि, (अवतीति । अव + “इण्षिञ्जिदीडुष्य- विभ्यो नक्” । ३ । २ । इति उणादिसूत्रेण नक् । “ज्वरत्वरेति” । ६ । ४ । २० ऊट् । सर्व्वस्वे तु ऊन- यतेरूनमिति साधितम् ।) हीनम् । न्यूनम् ॥ (“ऊनं न साचेष्वधिको बबाधे” । इति रघुः । २ । १४ ॥ तत्रैव । ११ । १ । “किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ” । “ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा वंहिः” । इति मनुः । ५ । ६८ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊन¦ परिहाणे अदन्तचुरा॰ उभ॰ सक॰ सेट्। ऊनयति तेऔनिनत् त लुङि वा चङ् औनयीत् औनयिष्ट। ऊनः ऊनितः।
“मा त्वायतोजरितुर्मामूनयीः” ऋ॰

१ ,

५ ,

३ ,

३ ।

ऊन¦ त्रि॰ ऊन--हानौ अच्।

१ हीने,

२ असंपूर्णे च।
“ऊनं नसत्वेष्वधिकोबबाधे”
“किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ” रघुः।
“ऊने दद्याद्गुरूनेव यावत् सर्व्वलघुर्भवेत्” वृ॰र॰।
“ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः” मनुः
“ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनम्” याज्ञ॰। ऊनार्थशब्दयोगे तृतीया। एकेनोनः। ऊनार्थकशब्देन वातृतीयास॰। माषेणोनः माषोनः कलोनः कलयोनः। एको-नविंशतिः एकोनत्रिंशत् एकोनचत्वारिंशत् एकोनपञ्चाशत्एकोनषष्टिः एकोनसप्ततिः एकोनाशीतिः एकोननवतिःएकोनशतम्। तत्तत्संख्याया एकैकोनसंख्यायाम्। एवंद्व्यूनविंशत्यादयोपि अष्टादशादिसंख्यासु। संख्यासु ए-कत्वस्य प्रथमोपस्थितत्वात् एकशब्दाप्रयोगेऽपि एकत्वेनैवो-नत्वाबगमात् ऊनविंशत्यादिशब्दानामेकोनविंशत्यादीनां-वोधकत्वम्।
“एकेन द्वाभ्यामित्यूनके निचृतः” सर्वानु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊन¦ r. 10th cl. (न) ऊनत् (ऊनयति)
1. To deduct or lessen.
2. To mete out in small quantities.
3. To measure.

ऊन¦ mfn. (-नः-ना-नं) Less in number, size or degree, as fewer, smaller, inferior, &c. E. ऊन to deduct, &c. affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊन [ūna], a. [ऊन्-हानौ अच् Uṇ.3.2]

Wanting, deficient, defective; किंचिदूनमनूनर्धेः शरदामयुतं ययौ R.1.1; incomplete, insufficient.

Less than (in number, size or degree); ऊनद्विवर्षं निखनत् Y.3.1 less than two years old; ऊन वाभ्यधिकं वापि Y.2.295.

Fewer, smaller.

Weaker, inferior; ऊनं न सत्त्वेष्वधिको बबाधे R.2.14;

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊन mfn. ( अव्Un2. iii , 2 ; ? cf. Zd. ऊन) , wanting , deficient , defective , short of the right quantity , less than the right number , not sufficient

ऊन mfn. less (in number , size , or degree) , minus , fewer , smaller , inferior AV. x , 8 , 15 ; 44 ; xii , 1 , 61 TS. S3Br. Mn. Ragh. etc.

ऊन mfn. less than (with abl. e.g. लक्षाद् ऊन, less than a लक्षKatha1s. liii , 10 ; or ifc. e.g. तद्-ऊन, inferior to that one Mn. ix , 123 ), less by (with instr. e.g. द्वाभ्याम् ऊन, less by two S3Br. xi ; or ifc. e.g. अल्पो-न, less by a little , a little less Mn. ; पञ्चो-न, less by five etc. )

ऊन mfn. less by one (prefixed to decimals from twenty up to one hundred , e.g. ऊन-विंश= एको-न-विंश, the twentieth minus one , the nineteenth).

"https://sa.wiktionary.org/w/index.php?title=ऊन&oldid=493644" इत्यस्माद् प्रतिप्राप्तम्